________________
व्यभिसमयालङ्कारालोकः ।
विस्तरेण तु निर्दिष्टो भूमिसम्भारः पञ्चविंशतिसाहस्त्रकायां ग्राह्यो ग्रन्थविस्तर प्राचुर्यान्मयेह न विस्तारित इत्यलं प्रसङ्गेन । दर्शनभावनामार्गात्मक एव भूमिसम्भार इति तदनन्तरं तस्य विपक्षप्रहाणावस्थाभेदेन प्रतिपक्षसम्भारत्वं प्रतिपादयितुं तृतौयादिप्रश्न परिहारद्वारेणाह । धातुकादित्यादि (p. 23, 16 ) । तचादौ वस्तुमाचप्रतिपक्षाधिष्ठानग्राह्यविकल्पद्दयस्य द्रव्यपुद्गलप्रज्ञप्तिपुरुषाधिष्ठानग्राहकविकल्पद्दयस्य च । दर्शनमार्गे प्रहाणाद्दिपक्ष - भेदेन तत्प्रतिपक्षावस्थाऽधिगमाद्यथाक्रमं चतुर्विधप्रतिपक्षसम्भारप्रतिपादनपरं चैधातुकान्निर्यास्यतीत्यादि वाक्यचतुष्टयं संवृतिसत्याश्रयेण योज्यम् । तदनु भावनामार्गे वस्तुमा प्रतिपक्षाकाराधिष्ठानद्विविधग्राह्यविकल्पस्य । द्रव्यपुद्गलप्रज्ञप्तिपुरुषाधिष्ठानद्विविधग्राहक विकल्पस्य
१०१
1
प्राणाद्विपक्षभेदेन तत्प्रतिपक्षावस्थाधिगमादपरं चतुविधप्रतिपक्षमम्भारं यथासङ्ख्यं परमार्थसत्याश्रयेणोक्तं क्रियाप्रतिषेधात्प्रतिपादयन्नाह । अपित्वित्यादि । स्थानप्रतिषेधमेव स्पष्टयति । अपि तु स्थास्यति सर्वज्ञतायामस्थानयोगेनेति (p. 23, 20 ) । तत्र स्थानं वस्तुपलम्भः करणादिभिः प्रतिष्ठानं चेतसस्तत्प्रतिषेधादस्थानम् । अत्र विचार्यते । यदि तावत् स्थानाभावोऽस्थानमेवं सत्यभावत्वात् प्रतिपक्षेा न युज्यते । अथ यन्न स्थानं तथा चक्षुरादिष्वप्यतिप्रसङ्ग इति । यथानभिनिवेशो व्याख्यातस्तथेदानीमपि नयो द्रष्टव्य इति न प्रतन्यते । चैकालिकवस्तुप्रतिषेधान्न निर्यात इत्याद्यभिधानम् । भूतार्थाभ्यासेन निर्याणात् कथमेवमिति । तत्कस्य हेतोरित्याशङ्क्याह ।