________________
१०.
प्रथमपरिवर्तः।
राजादिस्थानम्। आदित्याद्यन्वयः। मात्रादिसम्बन्धज्ञातिः। स्वविधेयपरिवारः। शकाद्यभिनन्दितोत्यादः। बुधादिसञ्चोदननिष्कमणम्। चिन्तामणिसदृशाश्वत्थरक्षादिः । सर्वबुद्धधर्मस्वभावगुणपरिपूरणञ्चेत्येवं सम्पत्तिलक्षणैर्दादशभिः परिकर्मभिः पूर्ववत्कृतपरिकर्मविशेषैर्नवमी धर्मदेशनाकौशलतोऽनवद्यत्वात् साधुमती भूमिः साक्षाक्रियते। तथाचोक्तम् । प्रणिधानान्यनन्तानि देवादीनां रुतज्ञता। नदीव प्रतिभानानां गर्भावक्रान्तिरुत्तमा ॥ ६ ॥ कुलजात्योश्च गोवस्य परिवारस्य जन्मनः । नैष्कम्य बोधिवृक्षाणां गुणपूरे स्वसम्पदः ॥ ७० ॥ इति गोत्रभूमिः श्रावकादिगोत्रस्याष्टमकभूमिः प्रथमफलप्रतिपन्नकस्य । दर्शनभूमिः श्रोतापन्नस्य । तनुभूमिः सकृदागामिनः। वीतरागभूमिरनागामिनः। कृताविकल्पभूमिरहतः। विशेषवचनाभावेन श्रावकभूमिः प्रतिपन्नकत्रयस्य । प्रत्येकबुद्धभूमिः प्रत्येकबुद्धानाम् । बोधिसत्त्वभूमिश्च यथोक्ता बोधिसत्त्वानां नवविधेत्येवं नवभूमौरतिक्रम्य दशम्यां पुनः भूमौ बोधिसत्त्वो बुद्ध एव वक्तव्यो न च सम्यक्संबुद्ध इति । पञ्चविंशतिसाहसिकायां वचनाद्यत्र बुद्धभूमौ येन कर्मवशिताश्रयत्वादिना ज्ञानेनावतिष्ठते, सा तेन प्राप्या दशमी धर्माम्बुप्रवर्षणावर्ममेघा बोधिसत्त्वभूमिः। तथाचोक्तम् ।
नवभूमौरतिक्रम्य बुद्धभूमौ प्रतिष्ठते । येन ज्ञानेन सा ज्ञेया दशमी बोधिसत्त्वभूः॥ ७१ ॥ इति