SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ अभिसमयालङ्कारालोकः । शून्यतायां विवादश्च तदिरोधश्च विंशतिः । कलङ्का यस्य विच्छिन्नाः सप्तमौमेत्यसौ भुवम्॥६२॥ इति तथाचोपादेयमधिकृत्योक्तम् । त्रिविमोक्षमुखज्ञानं त्रिमण्डलविशुद्धता । करुणामनना धर्मसमतैकनयज्ञता ॥ ६३ ॥ अनुत्पादक्षमाज्ञानं धर्माणामेकधेरणा । कल्पनायाः समुहातः मजाहकलेशवर्जनम् ॥ ६४ ॥ शमथस्य च निध्यप्तिः कौशलञ्च विदर्शने । चित्तस्य दान्तता ज्ञानं सर्वत्राप्रतिघाति च ॥६५॥ मक्तरभूमिर्यवेच्छं क्षेत्रान्तरगतिः समम् । मर्वत्र स्वात्मभावस्य दर्शनञ्चेति विंशतिः ॥ ६६ ॥ इति यथावत्सर्वमत्त्वचित्तचरितज्ञानम्। नानालाकधातौ मत्त्वार्थमृड्यभिज्ञाभिः क्रौडनम् । आधारबुद्धक्षेत्रसुवर्णादिभावपरिणामः। सर्वाकारधर्मपरीक्षणार्थं तथागतारागणम्। दिव्यचक्षुषो निष्पत्तिः। आधेयबुद्धक्षेत्रमत्त्वपरिशोधनम् । सर्वत्र मायोपमतावस्थानम् । मत्त्वार्थदर्शनाइद्धिपूर्वक जन्मग्रहणञ्चेत्येवमष्टप्रकारधर्मेण परिकर्मणा पूर्ववदष्टमौनिमित्ताभोगाप्रकम्प्यत्वादचला भूमिरनुभूयते । तथाचोक्तम् । सर्वसत्त्वमनोज्ञानमभिन्ना क्रौडने शुभा। बुद्धक्षेत्रस्य निष्यत्तिर्बुद्धसेवापरीक्षणे ॥ ६७ ॥ अक्षज्ञानं जिनक्षेत्रशुद्धिर्मायोपमा स्थितिः । मञ्चिन्त्य च भवादानमिदं कर्माष्टधोदितम्॥६८॥ इति अनन्तप्रणिधानम् । देवादिसर्वसत्त्वरुतज्ञानम् । नापमिताक्षयप्रतिभानम्। सर्वजनप्रशस्तगभावक्रमणम् ।
SR No.010445
Book TitlePrajnaparamitas 01
Original Sutra AuthorN/A
AuthorGieuseppe Tucci
PublisherOriental Research Institute Vadodra
Publication Year1932
Total Pages677
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy