________________
ह
प्रथमपरिवर्तः ।
सर्वजनालम्बनकृपाप्रतिवेधादुच्छेदग्रहायोगः । बुक्षेत्रपरिपूरिमुपादाय सर्ववस्त्वनुपलम्भाच्छाश्वतग्रहविनिदृत्तिः । सर्वधर्मसमतावगमानिमित्तग्रहानुपपत्तिः । महायानत्वेनैकयानावबोधाद्धेतुग्रहत्यागः । नामरूपाद्यनुत्पादपरिज्ञानात् स्कन्धग्रहवियोगः । गम्भीरधर्मनिध्यानक्षान्त्यवगमात् धातुग्रहोच्छेदः । सर्वधर्माणां महायानोपायमुखेन प्रकाशनादायतनग्रहविश्लेषः । सर्वकल्प नोच्छेदाचैधातुकप्रतिष्ठानग्रहविच्छेदः । निमित्तोद्रहणसत्कायादिदृष्टिरागादिक्लेशवर्जनात् मक्तिग्रहविरहः । शमथभावनाबलाढालौनचित्तग्रहविवेकः । प्रज्ञाकौशल्यादुदृष्टिनिश्रयारूपता । धर्मनैरात्म्यभावनाचित्तोपशमाद्धर्मदृष्टिनिश्रयास्वभावता उभयसत्याश्रितरूपाद्यप्रतिघातज्ञानोदयात
|
मङ्घदृष्टि
दर्शनाच्छून्यताविरोधोद्भावनाग्रहोत्सृष्टिचेत्येवं
निश्रयानुदयः । अभिनिवेशास्थानज्ञानलाभाच्छौलदृष्टिनिश्रयाभवनम्। सम्यग्धर्मप्रविचयार्थं यथेष्टममकालसर्वबुद्धक्षेत्रगमनाच्छून्यताविवादग्रहाप्रसवः । उपलम्भाभिनिविष्टसत्त्वधातूत्तारणाय यथानुरूपं सर्वत्र स्वात्मभाव - विंशतिप्रकारेण परिकर्मधर्मेण पूर्ववत् कृतविशेषलक्षणपरिकर्मणाऽधिगतेन यथोक्तविंशतिप्रकारधर्मकलङ्कापगमात् सप्तमौ सम्यगनाभोगमार्गोपसर्गात् सुष्ठु दूरङ्गतत्वाद्दूरङ्गमा भूमिः समौयते । तथा च हेयमधिकृत्योक्तम् । आत्मसत्त्वग्रहो जौवपुद्गलाच्छेदशाश्वतः । निमित्तहेत्वोः स्कन्धेषु धातुष्ठायतनेषु च ॥ ६० ॥ वैधातुके प्रतिष्ठानं सक्तिरालौनचित्तता । रत्नचितयशीलेषु तद्दृष्ट्यभिनिवेशिता ॥ ६१ ॥