________________
अभिसमयालङ्कारालोकः ।
दशाकुशलकर्मपथाः । श्रुताद्यभिमानः पराप्रणमनम् । कुशलाकुशल विपरीताभिनिवेशः । सत्कायदृष्ट्यादिमतिः । सर्वरागादिक्केशाभिमुखीकरणं चेत्येवंलक्षणान् दशधर्मान् बोधिनिबन्धकत्वेन विवर्जयन्नर्थादाक्षिप्तविपर्ययधर्मेण दशप्रकारपरिकर्मणा पूर्ववत् पञ्चमौ सुष्ठु दुःखेन जौयत इति सुदुर्जया भूमिराक्रम्यते ।
ह
तथाचोक्तम् ।
संस्तवं कुलमात्सर्यं स्थानं सङ्गणिकावहम् । आत्मोत्कर्षपरावने कर्ममार्गान् दशाशुभान् ॥ ५६ ॥ मानं स्तम्भं विपर्यासं विमतिं क्लेशमर्षणम् । विवर्जयम् समाप्नोति दशैतान् पञ्चमौं भुवम् ॥५७॥ इति दानादिषट्पारमितापरिपूरणेन श्रावकप्रत्येकबुडा - भिलाषस्य स्वभावानुपलम्भोत्तासचित्तस्य च याचकजन - प्रार्थनासङ्कोचचित्तस्य स्वरसप्रवृत्त सर्वार्थत्याग दौर्मनस्यस्य दारिद्र्यादर्थिजनप्रतिक्षेपचित्तस्य वर्जनेनेत्येवं द्वादशभिः परिकर्मभिः पूर्ववत् षष्ठौ सर्वबुद्धधर्माभिमुखौ भूमिराज्ञायते ।
तथाचोक्तम् ।
दानशौलक्षमावौर्यध्यानप्रज्ञाप्रपूरणात् ।
शिष्यखड्गस्पृहाचासचेतसां परिवर्जकः ॥ ५८ ॥ याचितोऽनवलौनश्च सर्वत्यागेऽप्यदुर्मनाः ।
कृशोऽपि नार्थिनां क्षेप्ता षष्ठौं भूमिं समश्नुते ॥ ५८ ॥ इति शून्यताऽनिमित्ताऽप्रणिहितचिविमोक्षमुखज्ञानाद्यथा
क्रममात्मसत्त्वजौवग्रहाभावः । चिमण्डलविशुद्धदशकुशलकर्मपथपरिपूर्याधिमोक्षा देकपुङ्गलग्रहवर्जनम् । दुःखार्त्त