________________
प्रथमपरिवर्तः।
सर्वधर्मा इति। भावनया निरंशत्वात् । सर्वात्मना धर्मधातोः प्रतिवेधेऽपि निश्चयोत्पादनापेक्षया सर्वचगार्थेन प्रतिवेधात् सर्वधर्मनिःस्वभावतासाक्षात्कारि स्फुटतरं ज्ञानमुत्पद्यते। तदा बोधिसत्त्वः सम्यक्त्वन्यामावक्रान्तितो दर्शनमार्ग प्रतिलभते। अत्र च रागप्रतिघमानाविद्याविचिकित्साः सत्कायान्तग्राहमिथ्यादृष्टिपरामर्शशौलव्रतपरामर्शाश्च कामधातौ चतुःसत्यभेदेन चत्वारिंशद्भवन्त्येवंरूपारूप्यधातौ त एव चतुःसत्यदर्शनप्रहतव्याष्टप्रकारप्रतिघवर्जिता दासप्ततिः। समुदायेन द्वादशोत्तरं क्लेशशतं दर्शनप्रहेयं प्रहौयते। सत्यानामेकाभिसमयादतः प्रमुदिताया भूमेः प्रथमः क्षणो दर्शनमार्गः। ततोऽन्ये द्वितीयादयः क्षणा यावद्दजोपामाख्य आनन्तर्यमार्गो यस्मादनन्तरं समन्तप्रभा बुद्धभूमिरवाप्यते । सर्वोऽसावग्रार्थेनेत्यादिना धर्मधातोः प्रतिवेधाद्भावनामार्गोऽभिधौयते। तत्र च षोडशक्लेशा यथासम्भवं क्रमेण प्रहीयन्ते। तद्यथा रागो देषो मानोऽविद्या सत्कायदृष्टिरन्तग्राहदृष्टिश्चेति कामावचराः षट् । रूपारूप्यावचरास्त एव दश देषवर्जिता इति दर्शनभावनामार्गे परिकर्मधर्मभेदेन प्रमुदितादिदशभूमिव्यवस्थानम् । तत्र च यमेर्ये परिकर्मभूता धर्मा यावन्न परिपूर्यन्ते तावत्तमिः। परिपूरौ तु भूम्यन्तरं वेदितव्यम् । तत्रमे परिकर्मभूता धर्माः पञ्चविंशतिसाहसिकायां निर्दिष्टाः। तद्यथा सर्वकुशलमूलसमुदानयनं, सत्त्वार्थे महायानधर्मपरिग्रहः । चतुरप्रमाणाभिनिहरणम्। निर्विकल्पप्रयोगेन सर्वस्वपरित्यागः। कल्याणमित्रारागणम्। श्रावकयानादिनिरपेक्ष