________________
- अभिसमयालदारालोकः ।
"संवत्या संविनिष्ठा हि विषयस्थितिरिति” विरुद्धमित्येवमादिदोषोऽवाच्यः । शून्यतालम्बनपक्षे तु निःस्वभावगोचरं ज्ञानं शून्यतायाश्च संस्कृतत्वं प्रसज्यते । यथाक्रमं ज्ञानतच्छ्रन्यतोभावाभावत्वेन परस्परव्यतिरेकाव्यतिरेकविकल्यात् । आदर्शादिज्ञानभेदेन तु पुनबहुवक्तव्यज्ञानसम्भारव्यवस्थानामेषा दिक् प्रभेदश्च प्रसगादभिहितो न त्विदानीमेव समस्तज्ञानसम्भाराधिगमः परिशिष्टाभिसमयक्रमनिर्देशात्। एवमन्यचापौति वेदितव्यम् । ज्ञानाभ्यासवतः प्रज्ञापरिशुड्या सम्यक्समाध्यादिभिः सत्त्वार्थकरणात् पुण्यमिति पुण्यसम्भारः। कृतपुण्यज्ञानाभ्यासस्य वस्तुपरीक्षामार्गादौ यत्न इति मार्गसम्भारः। मार्गान्वितस्याकारो मुखं सर्वधर्माणामाद्यनुत्पन्नत्वादित्यादिना तेन तेनाक्षरविचित्रीकारेणानल्पकल्पधर्मदेशनाहेतोः स्मृतेरपर्युपयोगात् स्मृतिर्हि ग्रन्थार्थधारणेन धारयतौति कृत्वा धारणौसम्भार इति। एतच्चोपायकौशलसम्भारादिपञ्चकं पञ्चविंशतिसाहस्त्रिकायामपि महायानशब्देन विस्तरतो निर्दिष्टमिति न सन्देहः कार्यः। प्राप्तधारणौकस्योत्तरोत्तराधिगमप्रतिष्ठायोगेन तज्जगुणाधारयोगेन चाधिगमावस्थाविशेषा भूमय इति भूमिसम्भारं प्रतिपादयितुम् । यदपि सुभूते एवं वदसि कथं वा तत्सम्प्रस्थितो वेदितव्य इत्यादि (p. 23, 13) चोद्यवचनं सम्बन्धार्थमुच्चार्योत्तरार्थमाह। पारमिताभिः सम्प्रस्थित इति । दशभूमिसङ्गहौताभिर्दशभिरतिरिक्ततराभिर्दानादिपारमिताभिः क्रमेण सम्यक् सम्प्रस्थित इति फलनिर्देशाद्भूमिसम्भारः कथितः। एतदक्तम् । तत्र यदा निरात्मानः
GIGA