________________
प्रथमपरिवर्तः।
कर्चा शून्यत्वात् परभावशून्यता। शून्यताधिष्ठानो हि पुरुषव्यापारः केवलं विधातायेति कृत्वा ॥२०॥ एतच्च शून्यतात्रयं यथाक्रमं सवासनक्लेशावरणप्रहाणाश्रयत्वेन सवासनज्ञेयावरणप्रहाणाश्रयत्वेन स्वयम्भूत्वार्थेन च बुड्डभूमौ वेदितव्यम् । अनया तु दिशा प्रकरणानामानुपूर्वीविकलानां प्रकरणार्थो वाच्यः । “ये हि परप्रतिषेधमुखेन शून्यतामेव केवलं वर्णयन्ति। न त्वेषामभिसमयानुपूर्वो काचिदस्तौति तेषां प्रकरणार्थ एव वाच्यो न मुख्यः शास्त्रार्थ इत्यनेन शून्यताप्रकरणानां गतगन्तव्यानुपूर्वीवैकल्यादद्देशभ्रंशसम्भव" इत्यार्यविमुक्तिसेनः। किं पुनरिदं निर्विकल्पकं ज्ञानमालम्बते शून्यतामित्येके। सर्वधर्माणां स्वभावशून्यतालम्बनं तदित्यपरे। एतदेव च न्याय्यम् । यद्यज्ञानं तत्तत् सर्वधर्मस्वभावशून्यतालम्बनं तत्त्वेन । तद्यथा स्वप्नेऽश्वादौनां स्वभावशून्यतालम्बनं ज्ञानम् । ज्ञानञ्चेदं निर्विकल्पकं विवादपदमारूढं मन इति स्वभावहेतुः। ___ "अप्रत्यक्षोपलम्भस्य नार्थदृष्टिः प्रसिध्यति"।
इति नासिबो हेतुः । सपक्षभावान्न विरुद्धः । सर्वधर्माणां तात्त्विकस्वभावस्य पश्चानिराकरिष्यमाणत्वान्नाप्यनैकान्तिकः। ननु च यदालख्यते तन्नास्ति। तद्यथा दिचन्द्रादि। सर्वधर्मस्वभावशून्यतापि चेयमालम्ब्यमाना तथैव नास्तीति सर्वधर्मास्तित्वमापद्यत इति चेददोष एषः । यस्मान्न देवदत्तप्रख्यस्याभावस्यापवादान्तस्य हन्तरि यज्ञदत्तप्रख्ये स्वभावे समारोपान्ते तच्छ्रन्यतया हते पुनः प्रादुर्भाव इति। किञ्चालम्बनं तत्त्वतोऽसिद्धम् ।