________________
अभिसमयालयारालोकः।
रूपत्वेनानुत्सर्गप्रज्ञप्तिनिमित्तत्वायोगादियमनानात्वार्थन सप्तम्याम् ॥ ११॥ सर्वायैरकृता प्रकृतिस्तस्यास्तया शून्यत्वात्प्रकृतिशून्यता। तस्याः संस्कृतासंस्कृतविकाराविकारानापत्तेः॥१२॥ धर्मस्य धर्मेण शून्यत्वात् सर्वधर्मशून्यता। सर्वधर्माणां संस्कृतासंस्कृतराश्योरितरेतरापेक्षत्वेन स्वभावापरिनिष्यन्नत्वात् ॥ १३ ॥ एतच्च शून्यताइयमहौनानधिकार्थेन निर्विकल्पक्षेत्रपरिशुद्धिवशितायाश्रयत्वेन च फलभूमित्वात् प्रतिवेधपरिकर्मभेदेनाष्टम्याम्। रूपणादिलक्षणस्य रूपादेस्तल्लक्षणशून्यत्वाल्लक्षणशून्यता। लक्षणव्यवस्थानस्य सामान्यविशेषप्रज्ञप्तिमाचत्वात् ॥ १४ ॥ अतीतादीनां धर्माणामतीतादिषध्वस्वितरेतरविपर्ययानुपलभ्यत्वेनानुपलम्भशून्यता। अध्वनां भावप्रप्तिमात्रत्वात्॥१५॥ एतच्च शून्यतादयं ज्ञानवशिताश्रयत्वेन तथैव नवम्याम् । नास्ति सांयोगिकस्य धर्मस्य स्वभावः प्रतीत्यसमुत्पन्नत्वादिति संयोगस्य तेन शून्यत्वादभावस्वभावशून्यता सामग्रीमाचं भाव इति कृत्वा ॥ १६ ॥ भावस्योपादानस्कन्धलक्षणस्य तेन शून्यत्वाद्भावशून्यता। राश्यर्थो हि स्कन्धार्थो राशिश्चापदार्थत्वान्नोपादानलक्षणस्य भावस्य निमित्तं भवितुमर्हतौति कृत्वा ॥ १७॥ एतच्च शून्यताइयं कर्मवशिताश्रयत्वेन पूर्ववद्दशम्याम्। अभावस्यासंस्कृतस्य शून्यतादेतेन शून्यत्वादभावशून्यता वस्तुधर्मेणावरणादिना तत्वज्ञप्तेः ॥ १८॥ स्वभावस्य शून्यताख्यस्यार्याणां ज्ञानेन दर्शनेन वाकृतकत्वात् स्वभावशून्यता। ज्ञानदर्शनस्य यथाभूतार्थद्योतकत्वात् ॥ १६॥ उत्पादादा तथागतानामनुत्पादादा स्थितै वैषा धर्माणां धर्मतेति परेण