________________
प्रथमपरिवर्तः ।
रूपसङ्गृहौतम् । आध्यात्मिकबाह्यं यदिन्द्रियाधिष्ठानसङ्गृहीतम् । तड्याध्यात्मिकश्च चित्तेनोपात्तत्वाद्वाह्यश्वानिन्द्रियसङ्गृहीतत्वात् । एतच्च शून्यताचयमधिमुक्तिचर्या - भूमौ । सर्वधर्मशून्यतया श्रन्यताया आध्यात्मादिशून्यतालम्बनज्ञानस्वभावाया अपि शून्यत्वेन शून्यता शून्यता सर्वधर्मशून्यताज्ञानमत्र सर्वधर्मशून्यता तेन च शून्यता शून्या । तस्य ग्राहकविकल्पप्रहाणादियं प्रयोगमार्गे ॥ ४ ॥ दशानां दिशां दिग्भिः शून्यत्वेन महाशून्यता । तासां महासन्निवेशत्वादियं सर्वत्रगार्थेन प्रथमायां भूमौ ॥ ५ ॥ परमस्य निर्वाणस्य निर्वाणार्थरूपशून्यत्वेन परमार्थशून्यता तस्य विसंयोगमाचत्वादियमग्रार्थेन द्वितीयायाम् ॥६॥ संस्कृतस्य धातुकस्य कामादिधातुशून्यत्वेन संस्कृतशून्यता । तस्यापरिनिष्यन्नस्वभावत्वेन शक्यप्रतिपक्षत्वात् । इयं निष्यन्दाग्रार्थेन तृतौयायाम् ॥ ७॥ असंस्कृतस्यानुत्पादानिरोधानन्यथात्वस्य तेन शून्यत्वादसंस्कृतशून्यता । अनुत्पादादौनामुत्पादादिप्रतियोगिप्रज्ञप्तिनिमित्ताभावात् । इयं निष्परिग्रहार्थेन चतुर्थ्याम् ॥ ८ ॥ अन्तस्यान्तेन शून्यत्वादतौतान्तत्वेनात्यन्तशून्यता । अन्तोभागस्तचोच्छेदशाश्वतान्तयोर्मध्ये न तदस्ति किश्विद्येन तयोर्भागव्यवच्छेदनिमित्तत्वेन स्वभावो व्यवस्थाप्येत । इयं सन्तानाभेदार्थेन पश्चम्याम् ॥९॥ आदिमध्यापर्यवसानानान्तैः शून्यत्वेनानवराग्रशून्यता । आद्यादौनां धर्मतानुस्यूतत्वेनात्यन्तिकत्वादियं निःसंक्लेशविशुद्ध्यर्थेन पथाम् ॥ १० ॥ अवकिरणच्छोरणोत्सर्गलक्षणस्यावकारस्य विपर्ययेणानवकारस्तस्य तेन श्रन्यत्वादनवकारशून्यता । अवकिरणादेरक्रिया
६०
-