________________
अभिसमयालधारालोकः ।
e
यदच्यते । “तब महायानं न ज्ञायत इति प्रज्ञाकरुणाप्रयोगः। तयोरन्यतराव्यतिरेकं विपक्षातिक्रममवस्थाननिश्चयं प्रतिपक्षप्रयोगप्रश्रब्धिमधिगन्तारं चाधिकृत्य यद्यथा यतो येन यत्र यो निर्यास्यतौति कतमदित्यादिव्यपदेशेन षट्प्रश्ना" इत्यार्यविमुक्तिसेनः। तत्रोपायकौशलादिसम्भारान् प्रतिपादयितुं प्रथमं प्रश्नं विसर्जयन्नाह । महायानमित्या(p. 23, 17)दि।
पञ्चधर्माः स्वभावश्च विज्ञानान्यष्ट एव च ।
हे नैरात्ये भवेत्कृत्स्नो महायानपरिग्रहः ॥ इत्यार्यलङ्कावतारवचनेऽपि सम्भारप्रकरणबलादप्रमेयताया, उपायकौशलादिसम्भारात्मिकाया महायानमित्येतदधिवचनं मुख्यतो व्यपदेशः । कथं पुनरुपायकौशलादिसम्भारो ऽप्रमेय इत्याह। अप्रमेयमित्यादि। प्रत्यक्षादिप्रमाणापरिच्छेदेन यथोक्तमेव वस्त्वप्रमेयम् । एतदक्तम्। युगनद्धमार्गसम्भारवतः सर्वाकारजताप्रतिसंयुक्तर्मनसिकारैः सत्त्वार्थकरणादुपायकौशलसम्भारः। विदितोपायकौशलस्य ज्ञानाभ्यास इति ज्ञानसम्भारः। स पुनरध्यात्मादिशून्यताभेदेन विंशतिविधो वेदितव्यः । तत्रेयं विंशतिविधा शून्यता। यदताध्यात्मिकानां चक्षुरादौनामकूटस्थाविनाशितां प्रकृतिमुपादायाध्यात्मशून्यता ॥१॥ बाह्यानां रूपादौनां तथाप्रकृतिमुपादाय बहिर्धाशून्यता ॥ २॥ आध्यात्मिकबाह्यानामायतनानां तथाप्रकृतिमुपादायाध्यात्मबहिर्धाशून्यता॥३॥ तचाध्यात्मिकमायतनं यदिन्द्रियरूपसङ्गहौतम् । बाह्यं यद्दिषय
12