________________
प्रथमपरिवर्तः।
प्रत्यक्षत्वादिबाधोपनिपातो न भवतीति । तत्कस्य हेतोरित्याशयाह। असद्भूतत्वादि(p. 23, 1)त्यादि। न्यायेन कल्पितस्य रूपादेरसद्भूतत्वादलौकत्वादिकल्पितस्य विविक्तत्वात् स्वरूपविरहाधर्मतास्वभावस्यानुत्पन्नत्वादजातत्वादबवाऽमुक्तत्येके। प्रत्यक्षानुमानागमप्रमाणैरप्रतिभासमानतत्त्वोत्पत्त्यादिनिराकरणादसद्भूतत्वादिपदचयमित्यपरः ।
निर्भासते हि यद्रपं नैव तत् प्रतिषिध्यते ।
वेद्यमानस्य नो युक्तं कस्यचित्यतिषेधनम् ॥ इति न्यायाद्यथादर्शनं बन्धमोक्षस्य व्यवस्थापनात् कुतः प्रत्यक्षादिबाधेति भावः। अयमित्याद्युपसंहारः। महासन्नाहो ऽसन्नाह इति यथाक्रम कृपाप्रज्ञाबलात्। मंतिपरमार्थयोरिति शेषः। निरुत्तरस्तृष्णौं स्थित इत्याह । एवमित्यादि। ननु शमथविदर्शनयोविरुद्धत्वात् कथमेकत्र सम्भव इति चेत्। नैवं, तथाहि यदा शमथेनालम्बने चित्तं स्थिरौकृतं भवति। तदा प्रज्ञया विचारयतः सम्यग्ज्ञानालोकोत्पादादन्धकारमिवालोकोदये सत्यावरणमपहीयते। अत एवानयोश्चक्षुरालाकवत्सम्यग्ज्ञानोत्पादं प्रत्यन्योन्यानुगुण्येनावस्थितत्वान्नालोकान्धकारवत् परस्पर विरोधः । नहि समाधिरन्धकारस्वभावः। किन्तर्हि चित्तैकाग्रतालक्षणः। स च समाहितो यथाभूतं प्रजानातीति वचनादेकान्तेन प्रज्ञानुकूलत्वादविरुद्ध इति युगनद्धमार्गसम्भारान्वितस्योपायकौशलादिकमित्युपायकौशस्लादिसम्भारप्रतिपादनाय प्रश्नं कर्तुमुपोहातयन्नाह। एवं भगवन्नित्यादि। एवं प्रागुक्तक्रमेण महासन्नाहसन्नद्धः सन्महायानसंप्रस्थितो भवतीति