________________
बभिसमयालबारालोकः ।
नया सर्वाकारज्ञता गगनगादिसमाधिभिश्च सत्त्वार्थप्रतिसन्नडोऽपि कथमसन्नद्ध इति। तत्कस्य हेतोरित्याशङ्याह। अकृता हो(p. 21, 17)त्यादि। न्यायेन कारकहेतोरभावादकृता। विनाशहेतोरसत्त्वेनाविकता। उभयसहकारिप्रत्ययानुपपत्तेरनभिसंस्कृता। अभूतप्रादर्भावं तद्विशेषगमनं फलप्राप्तिसंमुखौकरणं चाधिकृत्य यथाक्रमं वा चौणि पदानि। युक्त्युपेतत्वेनाभ्युपगमादाह। एवमेतदित्यादि। ननु बन्धमोक्षसद्भावे कथमेवमेतदकृतादिकमिति । तत्कस्य हेतोरिति । (p. 21, 21) कस्यचिबोद्यमाशङ्याह। तथाहौत्यादि। अन्यथाऽभ्युपगम्य विचारायोगादसङ्गतमेतत्स्यात् । एवमन्यचापि वक्तव्यम् । अध्यारोपिताकारप्रवृत्तवैधातुकचित्तचैत्तकल्पनया बन्धाभावादबद्ध रूपम्। यथोक्तकल्पनाविकल्पनाविवेकेन मोक्षाभावाच्चामुक्तम्। तत्त्वतो रूपादौनामसत्त्वात्। धर्मस्य तर्हि बन्धमोक्षौ भवत इत्याह । रूपतथतापौत्यादि (p. 22, 2) । धर्म्यभावे धर्मतानुपपत्ते रूपादिशून्यता न बड्डा न मुक्ता। यथादर्शनं तु रूपादितत्तथतयोर्बन्धमोक्षौ भवत इति भावः। सुभूत्यभिप्रायानवगमाचोद्यहारेणाह। रूपमित्यादि। पृच्छतोऽयमभिप्रायः। रूपादितत्तथताऽबड़ा ऽमुक्तति वदसि । नैवं वक्तव्यं सामान्येन प्रत्यक्षा दिबाधोपनिपातादिति। अथ विशेषेण स तर्हि वक्तव्य इत्याह। अथ कतमत्तदि(p. 22, 9)त्यादि। विचारविमर्दासहिष्णुत्वेन बुद्धबोधिसत्त्वादिरेव मायापुरुष इत्यभिप्रायवान् सामान्येनाह। यदायुष्मन् पूर्ण मायापुरुषस्येत्यादि (p. 22, 16)। कथमेवं