________________
अभिसमयानारालोकः।
तयाऽशेषसद्धर्मालम्बनपर्येष्टिः। सदा गृहवासानभिरतिः। सर्वथानुत्तरबुद्धकायमनसिकाराविरहः। यथावत्सूत्रादिधर्मप्रकाशनम्। प्रतिज्ञातार्थनिष्पत्तिश्चेत्येभिर्दशभिर्धमः सर्वथोत्पाद्यमानत्वात् परिकर्मभिः कारणविशेषैः स्वभावानुपलम्भतया कृतविशेषलक्षणपरिकर्मभिरेव प्रथमाऽपूर्वधर्मतत्त्वाधिगमेन प्रमोदलाभात् प्रमुदिता भूमिः प्राप्यते। तथाचोक्तम् । लभ्यते प्रथमा भूमिर्दशधा परिकर्मणा । आशयो हितवस्तुत्वं सत्त्वेषु समचित्तता ॥ ४६॥ त्यागः सेवा च मित्राणां सद्धर्मालम्बनैषिणा । सदा नैष्कम्यचित्तत्वं बुद्धकायगता स्पृहा ॥ ५० ॥ धर्मस्य देशना सत्यं दशमं वाक्यमिष्यते । ज्ञेयञ्च परिकमैषां स्वभावानुपलम्भतः ॥५१॥ इति सर्वथा परिशुद्धं श्रावकप्रत्येकबुद्धमनस्कारपरिवर्जितं कुशलधर्मसङ्ग्राहकं सत्त्वार्थक्रियासंवरशीलम् । परकृतोपकारस्याविप्रणाशनम् । सत्त्वानामन्तिके ऽव्यापादादिचित्तता। सत्त्वपरिपाचनादावविप्रतिसारः। एकसत्त्वस्यापि कृतशो दीर्घकालं नरकादिवासोत्साहः। सर्वजननम्रता। गुरूणामन्तिके तद्दचनानुष्ठानेन शास्तृसञ्जा। अनन्यकर्मणो दानादिपारमितासूद्योगपर्येष्टिश्चेत्येवं परिकर्मणा पूर्ववत् । कृतपरिकर्मविशेषेणाष्टप्रकारधर्मेण द्वितीया सर्वदौःशौल्यमलापगमाविमला भूमिरधिगम्यते।
तथाचोक्तम्। शौलं कृतज्ञता शान्तिः प्रामोद्यं महतो कृपा। गौरवं गुरुशुश्रूषा वौर्य दानादिकेऽष्टमम् ॥ ५२ ॥ इति