________________
प्रथमपरिवर्तः।
तथाचोक्तम् ।
दयादानादिकं षद शमथः सविदर्शनः। युगनबश्च यो मार्ग उपाये यच्च कौशलम् ॥ ४७॥ ज्ञानं पुण्यश्च मार्गश्च धारणी भूमयो दश । प्रतिपक्षश्च विज्ञेयः सम्भारप्रतिपत्क्रमः ॥४८॥ इति अतस्ता प्रतिपादयितुं प्रश्रयन्नाह। सन्नड इत्यादि। कियतेति कियत्सङ्ख्यावच्छिन्नेनार्थान्तरेण धर्मेण युक्त इत्यध्याहार्यम् । यतः सन्नाहप्रतिपत्त्या करुणादिसम्भारेण च युक्तो महासन्नाहसन्नद्ध इति। पञ्चविंशतिसाहसिकायां भगवता व्याख्यातम् ।
तवार्थाक्षिप्तसन्नाहप्रतिपत्त्या युक्तो महासन्नाहसन्नद्ध इत्यानन्तरमावेदितमधुना करुणादिसम्भारेणेत्यदोषोऽध्याहारपदस्यार्थं विसर्जयन्नाह । इहेत्यादि (p. 20, 10)। इहेति वाक्योपन्यासे । एवं भवतीति। एवञ्चित्तमुत्पद्यते। तदेवाह। अप्रमेया इत्यादिना। प्रत्यक्षादिप्रमाणेन प्रमातुमशक्यत्वादप्रमेयाः। यथाशयं यानत्रयनिर्वाणप्रापणात्परिनिर्वापयितव्याः। असोया इत्येकत्वादिसङ्ख्यारहिताः। एतदुक्तं " कृपया विहीनस्यानुपायवतः परेषां क्वचिदप्रतिष्ठापनेन निर्वपणासम्भवादिदमर्यादाक्षिप्त भवति। करुणया पौद्यमानस्य दानादिभिः षडभिः पारमिताभिरुपायभूताभिरनुगृह्य दानपारमितया तदात्वसुखोपसंहारेण शोलपारमितायाऽयतिसुखोपसंहारेण सहिष्णोरुत्साहिन एकाग्रचित्तस्यैकान्तिकफलप्राप्तिमुपादाय शान्तिवीर्यध्यानपारमिताभिरैकान्तिकसुखोपसंहारेण