________________
अभिसमयालङ्कारालोकः ।
댓
प्रज्ञापारमितयाऽत्यन्तिकसुखोपसंहारेण चात्मनः षट्पारमितास्ववस्थानवत्तच समादापननिवेशनप्रतिष्ठापनैविक्षेपात्प्रतिष्ठापयितव्या मये" ति । एवञ्च सप्तसम्भारा निर्दिष्टा भवन्ति । यदुत करुणासम्भारो दानसम्भारः शौलसम्भारः क्षान्तिसम्भारो वौर्यसम्भारो ध्यानसम्भारः प्रज्ञासम्भार इति । तत्रापि समाधिलाभात् कर्तृकर्मोपलम्भो नास्तीत्याह । न च ते सन्तौत्यादि । एवं तर्ह्यनुपलम्भ इत्याह । स तानित्यादि । स करुणादिसम्भारेण युक्तो बोधिसत्त्वो ऽप्रमेयांस्तावतो ऽसयेयांस्तान् सत्त्वान् परिनिर्वापयति संहत्या । यद्येवमुपलम्भस्तर्हि प्राप्त इत्याह । न चेत्यादि । परमार्थतो ऽनुपलम्भादिति भावः । कथं पुनरेकस्योपलम्भानुपलम्भाविति । तत्कस्य हेतोरित्याशङ्कयाह । धर्मतैषेत्यादि । यथा मायाधर्मता यथादर्शनं सत्या, न्यायेनासंघटनादसत्या । अतस्तां तर्कविस्यन्दासन्दूषितां सार्वलौकिकौमाभासमात्रगमनतां दृष्टान्तत्वेनोपादाय गृहीत्वा तथाधर्मार्णा रूपादीनामेषा धर्मता । भिन्नविषयव्यावृत्त्यपेक्षा प्रकल्पितत्वेनोपलम्भानुपलम्भस्वभावाऽविरुड्डा स्याद्भवेत् । एकविषयव्यावृत्त्यपेक्षाभयधर्मकल्पनायां दोष इति भावः । एतच्च दयमन्योन्यविपर्यासनिराकारायाभिहितं न तत्त्वतो यथोक्तं प्रागि त्यनेन शमथसम्भारो निर्दिष्टः । प्राप्तशमथस्य विदर्शनेति विदर्शनासम्भारमाह । यथापीत्यादिना (p. 21, 1) । दक्षा निपुनः । मायाकारान्तेवासौ तच्छिष्यः । मुख्यतो मायानिर्माणस्थानत्वाच्चतुर्महापथग्रहणम् । जनकार्य सत्त्व