________________
अभिसमयालङ्कारालोकः ।
शयं परार्थ इति मैत्र्यादिचतुरप्रमाणप्रस्थानम् । ततः परार्थप्रवृत्तस्योपलम्भो बन्धनमित्यनुपलम्भयोगप्रस्थानम् । ततो निःस्वभावयोगवतः कथं प्रवृत्तिरिति कर्मकर्तक्रियानुपलम्भेन मायापुरुषस्येव सर्वच चिमण्डलविशुद्धिप्रस्थानम् । तत एवं परिशुद्धचारिणः स्वसाध्ये यत्न इति सर्वसत्त्वाग्रताचित्तमहत्त्वादित्रिविधोद्देशप्रस्थानम् । ततः कृतोद्देशप्रयत्नस्य परचित्तपरिज्ञानादौ वौर्यमिति दिव्यचक्षुरादिषडभिज्ञाप्रस्थानम् । ततः प्राप्ताभिज्ञस्य बुडत्वोत्साह इति सर्वाकारज्ञता प्रस्थानं भवति एवमधिगमानुक्रमेण नवधैव सम्यग्व्यवस्थितिलक्षणसमस्तमहायानधर्माक्रमणस्वभावा प्रस्थानप्रतिपत्तिः । पञ्चविंशतिसाहत्रिकायाञ्च यथोक्तप्रतिपत्तिप्रतिपादको ग्रन्थो ग्रन्थो ग्रन्थप्राचुर्यान्नेह ज्ञापकत्वेन लिख्यते ।
तथाचोक्तम् ।
ध्यानारूप्येषु दानादौ मार्गमैत्र्यादिकेषु च । गतोपलम्भयोगे च चिमण्डलविशुद्धिषु ॥ ४५ ॥ उद्देशे षड्स्वभिज्ञासु सर्वाकारज्ञतानये । प्रस्थानप्रतिपज्ज्ञेया महायानाधिरोहिणौ ॥ ४६ ॥
इति
तस्मादिति । सन्नाहप्रस्थानप्रतिपत्तिभ्यां युक्तत्वात् । सङ्ख्यामिति (p. 20, 12) व्यपदेशम् । एतदुक्तम् । " यस्मात् सन्नाहप्रस्थानप्रतिपत्तिभ्यां युक्तः तस्मान्महासत्त्वव्यपदेश " इति । कृतप्रस्थानस्यैवं सम्भार इति सम्भार प्रतिपत्तिस्तृतौया सप्तदशप्रकारा वक्तव्या ।