________________
प्रथमपरिवर्तः।
षष्ठमिति । एवमेते षट् षट्का भवन्ति । सन्नाहानां षट् साधादानादिसाधर्म्याच षट् सन्नाहप्रतिपत्तयोऽभिधौयन्ते। पञ्चविंशतिसाहसिकायाञ्च सन्नाहप्रतिपत्तिप्रतिपादने दानादयः षट् षट्काः स्पष्टमुपलभ्यन्त एवेति न विप्रतिपत्तिः कार्या। तबादौ भोगनैरपेक्ष्याच्छोलसमादानं करोति। शौलानुरक्षी क्षमो भवति । खेदसहिष्णरारब्धवौर्यः। कौशौद्यविगमायानं निष्पादयति । सम्पन्नध्यानो लोकोत्तरां प्रज्ञा प्रतिलभत इत्येवं दानादीनामधिगमानुसारेण निर्देशोऽतिप्रतीत इत्ययमेव क्रमः। तथाचोक्तम् । दानादौ षड्विधे तेषां प्रत्येकं सहेण या। सन्नाहप्रतिपत्तिः सा षड्भिः षट्कैर्यथोदिता ॥४४॥
इति कृतसन्नाहस्यैवं प्रस्थानमिति प्रस्थानप्रतिपत्तिं द्वितीयां कथयन्नाह। महायानसंप्रस्थितो महायानसमारूढश्चेति । यानशब्दस्य कर्मकरणसाधनत्वादादौ प्रस्थानप्रतिपत्त्या महायाने हेतुफलात्मके धर्मे सम्प्रस्थितः। पश्चादत्तरोत्तरविशेषाधिगमान् महायानसमारूढ इति पदहयम् । सा चेयमाक्षिप्ता प्रस्थानप्रतिपत्तिः। यदुतादौ चित्तस्थिरीकरणात्वाकारलिङ्गनिमित्तानारूप्यसमापत्तिव्यवस्थानं प्रस्थानं भवति। ततः स्थिरीभूतचित्तस्य पुण्यजानाभ्यास इति। देयदायकप्रतिग्राहकादित्रिमण्डलविशुड्या षट्पारमिताप्रस्थानम्। ततः सम्भृतपुण्यज्ञानस्य तत्त्वाधिमोक्ष इति दर्शनभावनाऽशैक्षविशेषमार्गस्वभावार्यमार्गप्रस्थानम् । ततो धर्मताप्रवणस्य यथा