________________
अभिसमयालयारालोकः ।
भावनामार्गस्वभावा प्रतिपक्षात्मिका च सम्भारप्रतिपत्तिरुभयमार्गगोचरा। निर्याणप्रतिपत्तिर्भावनामार्गाधिष्ठाने" त्यार्यासङ्गः। एवं प्रयोगदर्शनभावनामार्गस्वभावानां प्रतिपत्तिलक्षणानां सन्नाहप्रस्थानसम्भारनिर्याणानां मध्ये वौर्यरूपतया सन्नाहप्रतिपत्तिं प्रथमां दर्शयितुमाह। अथ खल्वायुष्मानित्यादि (p. 20, 9)। पूर्णो मैत्रायणीपुत्र इति पूर्णस्यैव मैत्रायणीपुत्र इति संज्ञान्तरमथवा मैत्रायण्याः स्वमातुः पुत्रो मैत्रायणीपुत्रः। यदिदमिति। अनन्तरमिदं यहस्तु । महासन्नाहसन्नड इति सन्नाहप्रतिपत्त्या युक्तः। सा चेयमाक्षिप्ता सन्नाहप्रतिपत्तिः। यदत दानपारमितायां चरतो बोधिसत्त्वस्य धर्मदानादिदानात् दानपारमितासन्नाहः। तस्यैव श्रावकादिमनस्कारपरिवर्जनाच्छोलपारमितासन्नाहः। तस्यैव सर्वाकारज्ञता धर्माणां क्षमणरोचनव्युपपरीक्षणसर्वजनाप्रियवादित्वसहनात् क्षान्तिपारमितासन्नाहः। तस्यैवोत्तरोत्तरकुशलमूलाभिवृद्ध्यर्थं छन्दादिजननादौर्यपारमितासन्नाहः। तस्यैव यानान्तराव्यवकीर्णचित्तैकाग्रतया तत्कुशलमूलानुत्तरसम्यक्सम्बोधिपरिणामालम्बनाड्यानपारमितासन्नाहः। तस्यैव मायाकारसंज्ञोपस्थानेन देयदायकप्रतिग्राहकानुपलम्भात् प्रज्ञापारमितासन्नाह इत्येवमिदं प्रथमं सन्नाहप्रतिपत्तेर्दानपारमिताषट्कम् ।
एवं तस्यैव शौलपारमितायां चरतो द्वितीयं, शान्तिपारमितायां तृतीयं, वौर्यपारमितायां चतुर्थ, ध्यानपारमितायां पञ्चम, तस्यैव प्रज्ञापारमितायां चरतः
11