________________
प्रथमपरिवर्तः। नेत्यादि। उत्तरार्थमाह। अचित्तत्वादिति (p. 19, 17) तत्त्वेनानुत्पन्नत्वात्। शारिपुत्र आहेत्यारभ्य (p. 19, 20) यावदग्रतायां निर्दिष्टो निर्दिशसौति (p. 20, 8) व्याख्यातम् । अर्थान्तरप्रसङ्गेनागतत्वात् पुनरुक्तिदोषो न भवति । तथा चाहाचार्यदिनागः। . __ आवय॑ते स एवार्थः पुनरर्थान्तराश्रितः। इति
“तदेवमजितं जयोद्देशसाधर्म्यण त्रिविधः प्रतिपत्त्युद्देशो बोधिसत्त्वस्य निर्दिष्टो वेदितव्यः । आलम्बनादुद्देशस्य को विशेषः। तादात्विकमालम्बनं समोपवर्ति। आमुत्रिकविप्रकृष्टस्वद्देशः । शरसन्धानलक्ष्यवेधसाधयेणे" त्यार्यविमुक्तिसेनः। तथाचोक्तम् ।
सर्वसत्त्वाग्रता चित्तप्रहाणधिगमत्रये । त्रिभिर्महत्त्वैरुद्देशो विज्ञेयोऽयं स्वयम्भवाम् ॥ ४३ ॥
इति उद्देशानन्तरमिदानौं तन्निष्यत्तये प्रतिपत्तिर्वक्तव्या। सा च त्रिसर्वज्ञताविषये सामान्येन शुक्लधर्माधिष्ठाना। सर्वाकाराभिसम्बोधादौ चतुर्विधेऽभिसमये प्रत्यभिसमयं षट्पारमिताधिष्ठाना च क्रिया प्रतिपत्तिः। न धर्मकायाभिसमये फलत्वेन तत्र क्रियाऽसम्भवात् । तत्र " सन्नाहप्रस्थानप्रतिपत्ती यथासंख्यं पारम्पर्येण साक्षात्प्रयोगस्वभावे सम्भाराधिमुक्तिचर्याभूमिसङ्ग्रहौते । सम्भारप्रतिपत्तिर्दयामारभ्य धारणौपर्यन्तेन साक्षात्प्रयोगमार्गस्वभावाधिमाचारधर्मसङ्गहौता। प्रथमप्रमुदिताभूमिस्वभावा सम्भारप्रतिपत्तिदर्शनमार्गात्मिका। द्वितीयादिभूमिस्वरूपा