________________
व्यभिसमयालङ्कारालोकः ।
अन्यथा परोक्षापेयतत्त्वस्य " तदाख्यानं हि दुष्करम्” । इतिशब्दस्तस्मादर्थे रागाद्यशेषदोषप्रहाणे विशिष्टोऽधिगम इत्यधिगममहत्त्वं तथैवाह । बोधिसत्त्वो महासत्त्व (p. 195) इति भगवन्नुच्यते । यदपौत्यादिना न केवलमन्यदित्यपि - शब्दः । बोधिचित्तमिति बोध्यर्थं चित्तं प्रणिधिप्रष्ठानात्मकं चित्तमिति यावत् । सर्वज्ञताप्रवणं चित्तं सर्वज्ञता चित्तमाधिमोक्षिकमधिमुक्तिचर्याभूमिसङ्गृहीतम् । निर्विकल्पक - लोकोत्तरज्ञानप्रतिवेधादना श्रवं चित्तं शुद्धाध्याशयिकं सप्तसु प्रयोगभूमिषु निर्निमित्तानाभोगवाहित्वेनासमं चित्तं वैपाकिकमष्टम्यादौ । असमैर्बुदैः समं तुल्यं चित्तमसमसमं चित्तं सर्वावरणवर्जितं बुद्धभूमिगतम् । अथवानुत्पादरूपबोधिस्वभावौभूतं चित्तं बोधिचित्तम् । तदेव च योगिसंवृत्या आदर्शादिज्ञानसम्बन्धेन कथञ्चिद्यावृत्त्या सर्वज्ञताचित्तमित्यादि चतुर्धा व्यपदिश्यते । सर्वमप्येतदसाधारणमगम्यं सर्वश्रावकप्रत्येकबुद्धानाम् । तत्राप्येवंविधे चित्ते महार्थत्वात पक्षपाताऽसक्तोऽनभिनिविष्टोऽपर्यापन्नोऽस्थित इत्यनेनाधिगममहत्त्वमावेदितम् । सुतरामन्यत्रेत्यपिशब्दः । अनभिनिविश्या स्थित्वा च भावना - नुपपत्तेः कथं दयमेतदिति तत्कस्य हेतोरि ( p. 19, 12 ) - त्याशङ्क्याह । तथाहौत्यादि । यस्मात्तदनन्तरोक्तं सर्वज्ञताचित्तं पूर्वोक्तसर्वचित्तोपलक्षणपरं सक्तिप्रतिपक्षभूतमनाश्रवं स्थितिपक्षभूतमपर्यापन्नं तस्मान्मायापुरुषस्येव भावनेति भावः । तद्यदपौत्यादिनिगमनमनाश्रवत्वेऽपि वस्तुसद्भावादनभिनिवेशादिरयुक्त इत्याह । केन कारणे
ह