________________
प्रथमपरिवर्तः ।
तौयव्यावृत्त्या सत्त्वसामान्यात् सत्त्वसभागसङ्गहौतस्य विशेषेणाभिधानम् । अग्रतां कारयिष्यतीति (p. 18, 12) । सर्वमत्त्वाग्रताचित्तमहत्त्वं तदद्देशेन प्रत्तत्वादधिगम्य पश्चात्तत्प्राप्तकामानां सत्त्वानामग्रतां धर्मदेशनादिना निष्यादयिष्यति। तेनार्थे नेति। तेन कारणेन बोधिसत्त्वो महत्सत्त्वं चित्तमस्येति महासत्त्व इति । चित्तमहत्त्वे सति प्रहाणं महदिति । 'प्रहाणमहत्त्वप्रतिपादनाय गुर्वायत्ततयाऽनुज्ञामार्गणं प्रत्याह शारिपुत्रो ममापौत्यादि। सोऽर्थो मम भगवन् प्रतिभासते। येनार्थेन बोधिसत्त्वः सन्महासत्त्व इत्युच्यते इति वाक्यार्थः । न केवलं भगवत इत्यपि शब्दः। अनुज्ञातार्थमाह। प्रतिभात्वित्यादि (p. 19, 1)। यस्यार्थस्य कथनायेदानौं साम्प्रतमवसरं कालं मन्यसे । सोऽर्थः प्रतिभातु सम्यगभिमुखीभवतु । लब्धानुनो महत्या इत्याद्याह। तबाहङ्काराधारार्थेनात्मा। आहितोऽहङ्कार एतस्मिन्निति कृत्वा। सौदनात्मकत्वात् सत्त्वो जीवितेन्द्रियवशेनानिकायसभागापरिसमाप्तेर्वर्तत इति जीवः। पुनः पुनर्गतिषु लोयत इति पुनलः। आविर्भवतीति भवः । तिरोभवतीति विभवः। नास्तौदानौमभूत्पूर्वमित्युच्छेदः। अस्ति यत्स्वभावेन न तन्नास्तीति शाश्वतः । आत्मात्मीयाकारेण पञ्चस्कन्धदर्शनं स्वकायः । एवमाद्यानां दृष्टौनामिति । यथोक्तदृष्टिप्रमुखानां मिथ्याशौलव्रतपरामर्शदिदृष्टौनामात्मादिधर्मसन्तोरणाकाराभिनिवेशस्वभावानां प्रहाणाय सवासनपरित्यागाय धर्म देशयिष्यति। प्रहाणाधिगममहत्त्वं प्राप्येति भावः ।