________________
अभिसमयालङ्कारालोकः ।
साश्रवानाश्रवा धर्माः संस्कृतासंस्कृताश्च ये। शिष्यसाधारण धर्मा ये चासाधारणा मुनेः॥४२॥ इति
ये तु धर्मधातुमेव सदा विशुद्धमदयं ज्ञानमालम्बनं मन्यन्ते तैः सदा विशुद्धत्वादुत्तरोत्तरविशुद्धिविशेषगमनं कथमिति वक्तव्यम् ।
“अब्धातुकनकाकाशशुद्धिवच्छुद्धिरिष्यत” । इति चेत् । एवन्तर्हि शुद्धं तात्त्विकं ज्ञानमिति प्रतिपक्षाभिनिवेशादाक्षिप्तो विपक्षाभिनिवेशः। अतो विपक्षप्रतिपक्षविकल्पग्रहाणाभावात्प्रादेशिकशुद्धिप्रसङ्गः। ननु च त्वत्यक्षे सर्वाकारज्ञतायाः सुभूतेऽभाव आलम्बनमित्यालम्बननिष्ठा कथमिति चेत् । अदोषः । “यतो न्यायानुयायी भावो नास्तीत्यभावस्तथा संशतिरुच्यते । तस्याश्च प्रच्छादिततत्त्वरूपायाः क्रमेण मायोपमत्वप्रतीतिरेव शुद्धिः। एवञ्च कृत्वा प्रकृतिप्रधानं गोत्रम् । विकृतिप्रधानमालम्बनमुभयं तूभयत्राप्रतिषिद्धमित्याधारालम्बनयोर्लक्षणभेदः। बहुवक्तव्यं चालम्बनव्यवस्थानमित्यलं प्रसङ्गेने" त्यार्यविमुक्तिसेनः। आलम्बनानन्तरमेवालम्बनप्रतिपत्तेर्बोधिसत्त्वस्य कः समुद्देशः। इति समुद्देशार्थमाह । यत्पुनरित्यादि (p. 18, 10)। केन कारणेन केन प्रयोजनेन बोधिसत्त्वः सन्महासत्त्व इत्युच्यते। उत्तरमभिधातुमाह । महत इत्यादि। महतः सत्त्वराशेरित्यपरिमितस्य सत्त्वसमूहस्य सामान्येनाभिधानम्। एकोऽप्यनादिसंसारप्रवृत्तिमहत्त्वेन महान् भवेदिति राशिग्रहणम् । सत्त्वनिकायस्येति प्रतिपत्रकफलस्थनिकायादिभेदेन विजा