________________
प्रथमपरिवर्तः ।
तिक्रमावलम्बनेन याऽसक्तता तस्यां सत्यामालम्बनविशुडिगमनेनानुत्तरां सम्यक्सम्बोधिमभिसम्बुध्यते नान्यथाऽतो बोध्यालम्बनप्रयोजनेन सर्वप्रकारस्वार्थसम्पादनाद् बोधिसत्त्व इत्युच्यते। तत्रादौ तावत् सामान्येन सर्वधर्मान् कुशस्ना कुशलाव्याकृतान् यथाक्रमं श्रामण्यताप्राणातिपाताव्याकृतकायकर्मादय इति चिधा विभिद्योपादेयपरित्यागोपेक्षा स्थानीयत्वेन विभावयति । ततः पुनलौकिकमार्गसङ्ग्रहौताः पञ्चोपादानस्कन्धादयो लौकिकाः । सम्यगार्यमार्गेण सङ्ग्रहौताश्चतुर्ध्यानादयो लोकोत्तरा इति चिन्तयति । तचात्मग्रहाप्रतिपक्षत्वेन लौकिकाः पश्वोपादानस्कन्धादयः साश्रवाः । लोकोत्तरास्त्वात्मदर्शनप्रतिपक्षत्वेन स्मृत्युपस्थानादयोऽनाश्रवा इति हेयोपादेयतया निरूपयति । ततो ऽनाश्रवानादाय हेतुप्रत्ययाधौनकामादिधातुसङ्गहौता बोधिपक्षादयः संस्कृताः संहत्या । कारणानपेक्षधातुत्रयापर्यापन्नतथतादयो ऽसंस्कृताः परमार्थत इति द्विधा ध्यायति । ततो ऽसंस्कृतप्रभाविताः सर्वार्थजनसन्तानप्रभवचतुर्ध्यानादयः साधारणधर्माः । सम्यक्सम्बुद्धसन्तानोदयधर्मिदशबलादयोऽसाधारण धर्मा इति द्विधा भावयतीत्येवमधिगमानुक्रमेण सर्वधर्मा मायोपमतया यथावदियन्त एवालम्ब्यन्त इत्यालम्बनमेकादशविधं ज्ञेयम्। यथोक्तालम्बनक्रमप्रतिपादनग्रन्थपञ्चविंशतिसाहस्रिकायां स्पष्ट एवेति न विप्रतिपत्तिः कार्या । तथाचोक्तम् ।
७६
'आलम्बनं सर्वधर्मास्ते पुनः कुशलादयः । लौकिकाधिगमाख्याश्च ये च लोकोत्तरा मताः ॥ ४१ ॥