________________
अभिसमयालङ्कारालोकः।
यदि धर्मधातोरेवार्यधर्माधिगमाय हेतुत्वात्तदात्मको बोधिसत्त्वः प्रकृतिस्थमनुत्तरबुद्धधर्माणां गोचं धर्मतासंज्ञकम्। तदा धर्मधातोः सामान्यवर्तित्वादिदं प्रकृतिस्थं गोचमनादिकालायातं धर्मताप्रतिलब्धमिदं समुदानीतं पूर्वकुशलमूलाभ्यासप्रतिलब्धमिदं नियतं श्रावकप्रत्येकबुद्धतथागतगोवं महभिरपि प्रत्ययैरहार्यत्वादिदमनियतं श्रावकादिगोचं प्रत्ययैर्हार्यत्वादिति गोत्रभेदो न युज्यते । यथा श्रावकयानाद्यधिगमक्रमेणालम्बेत तथार्यधर्माधिगमाय धर्मधातोर्हेतुभावेन व्यवस्थापनाहोचत्वेन व्यपदेश इति समाधिरथवा यथैकमव्याभिनिवृत्तैकतेजःपरिपक्वाधारघटादेराधेयक्षौद्रशर्करादिभाजनत्वेन भेदस्तहद्यानवयसङ्गहौताधिगन्तव्याधेयधर्मनानात्वेनाधारनानात्वं निर्दिष्टमिति न दोषः । तथाचोक्तम् ।
धर्मधातोरसम्भेदाह्रोत्रभेदो न युज्यते।
आधेयधर्मभेदात्तु तद्भेदः परिगौयते ॥ ४० ॥ इति निरुक्तं तु गुणोत्तारणार्थेन धर्मधातुर्गोचं तस्माद्धि ते गुणा रोहन्ति प्रभवन्तीत्यर्थः। एवञ्च कृत्वोच्यते। असंस्कृतप्रभाविताः सर्वार्यपुगला इति। ननु चादावेव गोत्रं वक्तव्यं तत्पूर्वकत्वाच्चित्तोत्पादस्य मोक्षनिर्वेधभागीयानाञ्चेति कथमेवमुक्तम्। सत्यमर्थोनुपूर्वेषा। इयं तु प्रतिपादनानुपूर्वी यत्कार्य प्रतिपाद्य पश्चात्कारणं निर्दिश्यत इत्यदोषः । आधारानन्तरं यथोक्तप्रतिपत्त्याधारस्य बोधिसत्त्वस्य किमालम्बनमित्यालम्बनार्थमाह। यस्मात्सर्वधर्माणामेवावलम्बनस्थानीयानामनुबोधार्थेन सम्यगुभयसत्यान