________________
७४
प्रथमपरिवर्तः ।
भिनिवेशाभावेनाऽसक्ततायां सत्यामन्यथाधिगमानुपपत्त्या बुद्धधर्माधिगमाय मायापुरुष इति शिक्षते । तस्मात् कथं तत्त्वतः प्रतिष्ठार्थ इति भावः । संवृत्या पुनः प्रतिपत्तिधर्मस्यावस्थान्तरभेदेन धर्मधातुस्वभाव एव बुद्धधर्माधारो बोधिसत्त्वस्त्त्रयोदशविधो गोत्रमिति निर्दिश्यते । तचादौ तावञ्चतुर्विधलौकिक निर्वेधभागौयानामुत्पादाधारः । ततो लाकोत्तरदर्शनभावनामार्गयोः ततस्तदुत्पत्तिबलेन चौरनिष्कासनकपाटपिधानवत् समकालं समस्तप्रतिपक्षात्पादविपक्षनिरोधयोस्ततस्तदनुपलब्ध्या तयोर्विपक्षप्रतिपक्षयोर्निरोधोत्पादयुक्तविकल्पापगमस्य । ततः पूर्वप्रणिधानदानाद्युपायकौशल्यबलेन संसारनिर्वाणाप्रतिष्ठानलक्षणयोः प्रज्ञाकरुणयोस्ततस्तदुत्पत्त्या श्रावकाद्यसाधारणधर्मस्य । ततो यथाशयमवतारणाद्यभिसन्धिद्वारेण यानत्रयं प्रतिष्ठापनलक्षणपरार्थानुक्रमस्य । ततो यावदासंसारं निर्निमित्तानाभोगपरकार्यज्ञानस्य चाधारः । ततश्चैवमधिगमानुक्रमादियमानुपूर्वी । अनया च सर्वाधिगमधर्मसङ्ग्रहादियानेव निर्देशो न न्यूनो नाप्यधिकः । तथा संवृत्याधार भावस्याक्षिप्तत्वादयं सर्वोऽर्थोऽच प्रज्ञापारमितायामाङ्क्षिप्त एवेत्यवगन्तव्यम् । पञ्चविंशतिसाहसिकायाश्च प्रत्यर्थमाधारमधिकृत्य निर्दिष्टो ग्रन्थो नेह ज्ञापकत्वेन प्राचुर्यभयाल्लिख्यते । तथाचोक्तम् ।
-
षोढाऽधिगमधर्मस्य प्रतिपक्ष प्रहारणयोः ।
तयोः पर्युपयोगस्य प्रज्ञायाः कृपया सह ॥ ३८ ॥ शिष्यासाधारणत्वस्य परार्थानुक्रमस्य च । ज्ञानस्यायत्नवृत्तेश्च प्रतिष्ठा गोत्रमुच्यते ॥ ३८ ॥ इति