________________
अभिसमयालकारालोकः ।
अन्यथा यद्ययं न्यायो नाश्रीयते तदा प्रवचनव्याख्यैव न स्यात्। शब्दानां सामयिकत्वेनानेकार्थवृत्तौ प्रतिनियतार्थपरिग्रहे सन्देहात्। किञ्चार्यासङ्गप्रभृतौनामेवेदं व्याख्यानं लिख्यत इति प्रमाणीकर्तव्यम् । तथाहि श्रूयते । विदितसमस्तप्रवचनार्थो लब्धाधिगमोऽप्यायसङ्गः पुनरुक्तबाहुल्येनापुनरुक्तप्रदेशेऽपि प्रत्येकपदव्यवच्छेदादर्शनेन गाम्भीर्याच प्रज्ञापारमितार्थमुन्नेतुमशक्तो दौर्मनस्यमनुप्राप्तस्ततस्तमुद्दिश्य मैत्रेयेण भगवता प्रज्ञापारमितासूत्रं व्याख्यातमभिसमयालङ्कारकारिकाशास्त्रञ्च कृतम्। तच्छ्रत्वा पुनरार्यासङ्गेनाचार्यवसुबन्धुप्रभृतिभिश्च व्याख्यातमित्यलं प्रसङ्गेन। निर्वेधभागीयानन्तरं प्रतिपत्तिमतो यथोक्तनिर्वेधभागीयमन्यदपि दर्शनमार्गादिकमिति प्रतिपत्तेराधारं धर्मधातुस्वभावकमावेदयन्नाह। यद्भगवानेवमित्यादि (p. 17, 21) एतदुक्तम् । यद्भगवानेवमाह बोधिसत्त्वस्य महासत्त्वस्येत्यादि। यच्च सूत्रान्तरेषु महासत्त्वो इत्युच्यते। तत्र पूर्वके वाक्ये तेषु च सूत्रान्तरेषु धर्मधातुस्वभावत्वे बुद्धधर्माण कः प्रतिष्ठार्थः पदार्थो बोधिसत्त्व इति । उत्तरं वक्तुमाह । अपदार्थ (p. 18, 5) इत्यादि। बोधिसत्त्वो बुड्डधर्माणां पदार्थो बोधिसत्त्वपदार्थो यः स तत्त्वतो ऽपदार्थो ऽप्रतिष्ठार्थोऽगोत्रमिति यावत् ।
अधिगममनन्तरेण मुक्त्यनुपपत्तेरधिगच्छन् बुड्वधर्मान् कथमपदार्थो बोधिसत्त्व इति। तत्कस्य हेतोरित्याशङ्ख्याह । सर्वधर्माण होत्यादि। यस्मात् सर्वधर्माणां वस्तुतन्निमित्ता
10