________________
७२
प्रथमपरिवर्तः ।
पुलं दानादिपारमितासु संवृतिपरमार्थसत्यानतिक्रमेण हितप्राप्त्या पूर्ववदववदन्त्यनुशासति । ये चास्मै देवदत्तादिकायाहितपरिहारेण मारकर्माण्युपदिशन्ति । कथमित्याह । एवमित्यादि । एवं मारदोषा मारस्यान्तराया बुद्धवेषेणोपसङ्क्रम्य किं ते ऽनुत्तरया बोध्येत्यनागतार्थविवेचनता । इमे मारदोषास्तथैव किं ते प्रज्ञापारमितायां लिखनाद्यनुष्ठानेनेति वर्तमानार्थविवेचनता । तद्दिच्छिन्दनाबलेन यथाक्रमं स्वौकृतत्यागकर्मार्थमाह । एवं मारकर्माणामित्यादि (p. 17, 17 ) बुद्ध्वा च यत्कार्यं तदाह । तानि त्वयेत्यादिना । इमानौत्याद्युपसंहारः । महासन्नाहसन्नद्धस्येति । सन्नाहप्रतिपत्त्या वक्ष्यमाणया युक्तस्य महायानसंप्रस्थितस्येतिप्रस्थानप्रतिपत्त्या तथैवान्वितस्य महायानसमारूढस्येति । तयैव महायानमुत्कलितस्य । तथाह्यादौ तया प्रस्थितः पश्चादारूढ इष्यते । तथाचोक्तम् । चित्तानवलीनत्वादि नैः स्वाभाव्यादिदेशकः । afsvaपरित्यागः सर्वथा सम्परिग्रहः ॥ ३७ ॥ इति
65
" चं चान्तरानुसारेण व्याख्यातव्य" मिति भगवदचनादेव पञ्चविंशतिसाहस्त्रिकानुसारेण पूर्वाचार्यवसुबन्धुप्रभृतिव्याख्याक्रममाश्रित्याभिसमयालङ्कारकारिकानुरोधेन च भावाध्याहारादिपदं कृत्वा तथा सामान्यशब्दस्यापि प्रकरणादिबलेन विशेषे वर्तनाद्विवक्षापरतन्त्रत्वेन यथोक्तार्थे प्रवचनाविरुद्धे शब्दानां वर्तनात्तत्प्रतिषेधे वचनाभावेन च कारणेन ग्रन्थानुगतमेव व्याख्यातमिदम् । अतः कथमग्रन्थानुगममेवं व्याख्यानमिति न मन्तव्यम् ।