________________
अभिसमयालक्षारालोकः।
विकल्पः। व्यवदानप्रज्ञप्तिविकल्पः। दर्शनमार्गप्रज्ञप्तिविकल्पः। भावनामार्गप्रज्ञप्तिविकल्पः। विशेषमार्गप्रज्ञप्तिविकल्पः। अशैक्षमार्गप्रज्ञप्तिविकल्प इति । तथाचोक्तम् । द्रव्यप्रज्ञप्त्यधिष्ठानो दिविधो ग्राहको मतः । स्वतन्त्रात्मादिरूपेण स्कन्धाद्याश्रयतस्तथा ॥ ३६॥ इति
चतुर्विकल्पसंयोगं निर्दिश्येदानौमुपायकौशलकल्याणमित्रस्वभावं संपरिग्रहमावेदयन्नाह । मा भगवन्नित्यादि। नवयानसम्प्रस्थिता इति। प्रत्यग्रं महायाने प्रवृत्ताः। इममिति, गाम्भौयौदार्यालम्बनादिविशेषेण विशिष्टम्। उत्त्रसिषुरित्यादि (p. 17, 7)। तत्रास्थानत्रास उत्वास उन्मार्गवत्। सन्तत्या त्रासः सन्त्रासः। उत्पन्नभयस्याप्रतिविनोदनात् । सन्त्रासनिश्चयगमनं सन्त्रासापत्तिः। पापमित्रहस्तगता इति। संवृतिपरमार्थविभागमकृत्वा निरवधिकालाभ्यस्तोपलम्भानिराकरणेन सहसैवानुत्पादादिदेशको नरकादिफलसद्धर्मप्रतिक्षेपपापस्य हेतुत्वात्यापमित्रं तस्य हस्तगता ग्रहणयोग्यतां गता इत्यर्थः । व्यतिरेकमुखेन कथितोऽर्थोऽन्वयमुखेन कथ्यमानः सुदृढो भवतीत्याह । कल्याणमित्रहस्तगता इति। चित्तानवलौनत्वानुत्त्रासादिनोपायकौशल्येन यथाशयं क्षितौशेष्टराजौमरणनिवेदनन्यायेन मात्सर्यादिधर्मवियुक्तः समस्तवस्तुनैरात्यादिदेशकः सुगतिफलादिप्रापकत्वेन कल्याणमित्रं तस्य हस्तगता इति पूर्ववत्। कानीत्यादिना कल्याणमित्रस्वरूपः प्रश्नः । उत्तरमाह। य एनमित्यादि। ये पुद्गला देवदत्तादिकमेनं