________________
प्रथमपरिवर्तः ।
नुपपत्त्याऽभ्युपगमार्थमाह । एवमेतदित्यादि (p. 16, 19) । सम्भ्रमे रिभिधानम् । तेन हौत्याद्युपसंहारः । यस्मादेवं तेन कारणेन गत्यन्तराभावाद्यथा कर्ममायाजनितः संसारस्तथा लोकोत्तरा अपि धर्मा ज्ञानमायाजनिता इत्यनभिनिवेशयोगान्मायापुरुषेणेवानुत्तरायां
सम्य
सम्बोधी शिक्षितव्यमित्युपपन्नम् । न चायत्नसिडा मुक्तियतो ज्ञातमेव तत्त्वं मोक्षावाहकं नाविज्ञातमिति भावः । मायापुरुषत्वे संक्लेशव्यवदानव्यवस्था कथमिति । तत्कस्य हेतोरि (p. 17, 1 ) त्याशङ्कयाह । स एव हौत्यादि । पश्चपादानस्कन्धाः । साश्रवा रूपादयोऽनाश्रवपञ्चस्कन्धपरिग्रहाय पश्ञ्चस्कन्धाश्चेत्यध्याहार्यम् । यथादर्शनमेव संक्लेशव्यवदानव्यवस्था मायापुरुषत्वेऽपीति भावः । कथम्पुनमयोपमत्वमिति । तत्कस्य हेतोरित्याशङ्कयाह । तथाहौत्यादि। उक्तोऽप्यर्थः प्रकारान्तरेणाशङ्क्यमानो न पुनरुक्तम् । इति पुनरुक्ततादोषो नोद्भावनीयः । सर्वत्रैवं ज्ञेयम् । उक्तं भगवतेति । अत्र पञ्चोपादानस्कन्धेषु बोधिसत्त्व इति संज्ञादिवचनादनन्तरमेव मायोपमं रूपादिकमुक्तं भगवता । षडिन्द्रियं चक्षुरादि सविज्ञानविषयमिति शेषः । यतोऽनन्तरं वक्ष्यति ते पञ्चस्कन्धा इति । यद्दिज्ञानं तत् षडिन्द्रियम् । ज्ञानस्यैव तदाकारेण प्रतिभासनात् । षडिन्द्रियश्च पूर्ववग्राह्यमिति । प्राज्ञप्तिपुरुषाधिष्ठानग्राहकविकल्पः प्रतिपादितः । स चैवं विषयभेदान्नवप्रकारो भवति । तद्यथा स्कन्धप्रज्ञप्तिविकल्पः । श्रयतनप्रज्ञप्ति - विकल्पः । धातुप्रज्ञप्तिविकल्पः । प्रतीत्यसमुत्यादप्रज्ञप्ति
06