________________
व्यभिसमयालङ्कारालोकः ।
६६
य इत्यादि वदतस्तस्य कथं निर्देष्टव्यमुत्तरं भवेदित्यर्थः । वितथप्रख्यातिरूपं समानं रूपादीनामतो गत्यन्तराभावान्मायापुरुषेणेव शिक्षितव्यम् । न चायत्न सिडा मुक्तिरित्यभिप्रायवानाह । तेन हौत्यादि । यस्मात्त्वमेवं पृच्छसि तस्मात्त्वामेवाच प्रश्ने प्रतिप्रक्ष्यामि प्रतिप्रश्नं करिष्यामि । साध्वित्यादि । साध्वेवं भगवन्नित्यभ्युपगमं कृत्वा, इत्येवं भगवतः सकाशादश्रौषौत् । श्रुतवान् । कथमेवं श्रुतवानित्याह । भगवानित्यादि । विसर्जयन्नाह । नहौत्यादि । नैव तदन्यत्वं भगवन् यस्मान्नान्या सा माया । नान्यत्तद्रूपादि । रूपाद्येव माया मायैव रूपादि । एकानेकस्वभाववैधुर्यात्तत्वतोऽनयोर्निःस्वभावत्वे वितथप्रख्यातिरूपं समानमिति भावः। मायारूपाद्येोरेकत्वप्रतिपादने सति मायापुरुषेणेव शिक्षितव्यमिति प्रतिपादनायाह । तत्किं मन्यस इत्यादि ।
अचैषा पश्चस्त्रपादानस्कन्धेषु मायोपमेषु बोधिसत्त्व इति संज्ञा निमित्तोङ्ग्रहणम् । वस्तुसमेतमहमिति ज्ञानं समज्ञा । ज्ञेयज्ञानयोर्ग्राह्यग्राहकप्रकाराभिनिवेशविज्ञापनं प्रज्ञप्तिः ।
99
66
व्यवहार
विविधपरोपात्तानुपात्तवस्तु सम्बन्धव्यवहरणं इत्यार्यविमुक्तिसेनः । " गोत्रावस्थायां बोधिसत्त्व इति संज्ञा संज्ञैव केवला । चित्तोत्पादावस्थायां जानातीति ज्ञं समं ज्ञं चित्तं प्रवृत्तिनिमित्तं यस्या बोधिसत्त्व इति संज्ञायाः सेयं समज्ञा सर्वसत्त्वसमज्ञाननिमित्ता । सप्तसु प्रयोगभूमिषु सर्वधर्मप्रज्ञप्तिमाचताप्रतिषेधात् प्रज्ञप्तिः । अष्टम्यादौ निमि त्तानाभोगमार्गलाभाद्यवहारमात्रेणाभिलाप्याद्यवहार
99
इति भदन्तविमुक्तिसेनः । रूपादिव्यतिरिक्त बोधिसत्त्वा