________________
६
प्रथमपरिवर्तः ।
वस्तुक एव द्वितीय इत्ययमनयोर्ग्राह्यविकल्पयोर्विशेषः । एवञ्च कृत्वोच्यते। यः प्रथमो ग्राह्यविकल्पो द्वितीयोऽपि स इति पूर्वपादकः । यस्तावत्प्रथमो द्वितीयोऽपि सः । तद्यथा सर्ववस्तुकः प्रथमो ग्राह्यविकल्पः स्याद्दितौय एव न प्रथमस्तद्यथा व्यवदानमाचाधिष्ठानो द्वितीयो ग्राह्यविकल्प इत्येके । प्रथमः संक्लेशवस्त्वधिष्ठानो द्वितीयो व्यवदान - वस्त्वधिष्ठानोऽन्योन्यव्यवच्छेदरूपत्वादनयोर्भेद इत्यपरः । पुद्गलद्रव्याधिष्ठानं प्रथमं ग्राह्यविकल्पमाह । एवमित्या(p. 15, 17 ) दिना । एवमनन्तरोक्तक्रमेण ग्राह्यविकल्प
यमकृत्वा शिक्षते किम्प्रथमविकल्पनेनेति भावः । विकल्पावरणस्य तुल्यत्वादिति । भगवानाह न शिक्षत इति । तत्त्वेनेति शेषः। संवृत्या त्वादिकर्मिकस्यैवंशिक्षाऽन्यथानुपपत्तेरित्याह । एवं शिक्षमाण इत्यादि । सर्वज्ञतायां शिक्षत इत्यादिपदचयं यथाक्रमं प्रयोगाद्यवस्थासु वेदितव्यम् । सचैवं विषयभेदान्नवप्रकारो भवति । तद्यथा । स्वतन्त्रात्मविकल्पः । एकात्मविकल्पः । कारणात्मविकल्पः । द्रष्ट्राद्यात्मविकल्पः । संक्लेशाधारात्मविकल्पः । वैराग्याधारात्मविकल्पः । दर्शनमार्गाधारात्मविकल्पः । भावनामार्गाधारात्मविकल्पः । कृतार्थाधारात्मविकल्प इति । प्राज्ञप्तिकपुरुषाधिष्ठानं द्वितीयं ग्राहकविकल्पम् । तस्मिन् विकल्पे चोद्यपरिहारद्वारेणाह । यो भगवन्नित्या (p. 16, 2 ) दिना । प्राज्ञप्तिक एव पुरुषो ग्राहक इत्यभिनिवेशे वितथप्रख्याति - रूपत्वान्मायास्वभावः पुरुषो मायापुरुषः प्राज्ञप्तिक एवेति । तस्यापि शिक्षा प्राप्ता न चैवमचेतनत्वादपरिज्ञानेऽपि शिक्षायां सर्वेषां शिक्षाप्राप्तेर्मुक्तिरयत्नसिङ्केत्यभिप्रायेण