________________
अभिसमयालशारालोकः ।
सर्वधर्माः कल्पिता इति। तदपलम्भाभिनिवेशदिति भावः। आत्मादिविकल्पार्थमाह। ते तानसंविद्यमानानित्यादि।
आत्मनि सति परसंज्ञा, स्वपरविभागात्परिग्रहद्देषौ । अनयोः सम्प्रतिबद्धाः सर्वक्लेशाः प्रजायन्ते ॥ इत्यात्माद्यभिनिवेशादविपरीतं धर्मपुगलनैराज्यलक्षणं यथाभूतं मार्ग दर्शनादिकं पूर्ववन्न जानन्ति, न पश्यन्ति । विशुद्ध्यत्पादादिविकल्पार्थमाह। यथाभूतं मार्गमजानन्त इति । न निर्यान्ति न निर्गच्छन्ति । वैधातुकात्संसारात्। यतो न बुध्यन्त इत्यादिना। विशुड्युत्पादाद्यभिनिवेशाद्भूतकोटिमग्रार्थेन तत्त्वम्। तेन कारणेन बाला इति व्यपदेशं सयां गच्छन्ति प्रतिलभन्ते। प्रतिपक्षवत्वधिष्ठानं द्वितीयं ग्राह्यविकल्पमाह। ते सत्यं धर्म न श्रद्दधतीत्यादिना। अविपरीतार्थेन सत्यं धर्म प्रतिपक्षलक्षणं तदभिनिवेशविकल्पयोगेन विपरीतप्रतिपत्त्या स्वरूपाननुभवान्न श्रद्दधति नाधिमुञ्चेयुः । व्यतिरेकमुखेन विपरीतप्रतिपत्तिमेवाह । न खलु पुनरित्यादिना (p. 15, 16)। कञ्चिद्धर्म वैयवदानिक ग्राह्यविकल्येनेति शेषः। स चैवं विषयभेदान्नवप्रकारो भवति। तद्यथा राश्यर्थविकल्पः । प्रायद्वारार्थविकल्पः । गोवार्थविकल्पः । उत्पादार्थविकल्पः । शून्यतार्थविकल्पः । पारमितार्थविकल्पः। दर्शनमार्गविकल्पः । भावनामार्गविकल्पः। अशैक्षमार्गविकल्प इति । तथाचोक्तम् ।
वैविध्यं ग्राह्यकल्पस्य वस्तुतत्प्रतिपक्षतः । मोहराश्यादिभेदेन प्रत्येकं नवधा तु सः ॥३५॥ इति तत्र सर्ववस्तुक एव प्रथमो ग्राह्यविकल्यो व्यवदान