________________
प्रथमपरिवर्तः ।
स्कन्धविकल्पार्थमाह । तानित्यादि वस्तुमाचाधिष्ठानेन सर्वेऽपि तत्प्रतिबडा विकल्पाः । सम्बद्धा इति ज्ञापयितुं पूर्वेण सम्बन्धः कथितः । एवमुत्तरचापि ज्ञेयम् । कथमभिनिविष्टा इत्याह । तैरित्यादि । तत्त्वेनासंविद्यमानाः सर्वधर्मा रूपादिस्कन्धास्तद्विकल्पनयाऽभूतपरिकल्पादध्यारोपिताः, कल्पिताः । नामरूपाभिनिवेश विकल्पार्थमाह । ते तान् कल्पयित्वेत्यादि (p. 15, 6 ) । शाश्वतो - च्छेदयोरन्तयोरभिनिविष्टास्तान्नामरूपादौन्धमस्तदभिनिवेशविकल्पान्नित्यस्यार्थक्रियाविरहात्संवृत्याऽनित्या एवेति लौकिकेन श्रुतादिमयेन ज्ञानेन न जानन्ति ।
अज्ञानात् कल्पितं पूर्वं पश्चात्तत्त्वार्थनिर्णये । यदा न लभते भावमेवाभावं तदा कुतः ॥ इति भावनया न पश्यन्ति लोकोत्तरेण तस्मात्तत्त्वेनासंविद्यमानान्नामरूपादौन्सर्वधर्मस्तदभिनिवेशबलात्कल्पयन्ति । अन्तद्वय सक्तिविकल्पार्थमाह । कल्पयित्वा दावन्तावभिनिविशन्त इति । तत्सक्तिविकल्पादिति भावः । मंक्लेशव्यवदानाज्ञानविकल्पार्थमाह । अभिनिविश्येत्यादि । अभिनिवेशहेतुं तन्निमित्तमुपलम्भं निश्रित्य निमित्तीकृत्वा सांक्लेशिक वैयवदानिकधर्मस्वरूपाज्ञानविकल्पबलेनातीतान् यावत्प्रत्युत्पन्नान्धर्मान् कल्पयन्ति । आर्यमार्गाप्रतिष्ठानविकल्पार्थमाह । ते कल्पयित्वा नामरूपेऽभिनिविष्टा इति (p. 15. 11 ) । दर्शनादिमार्गास्थित्यभिनिवेशादिति भावः । तत्र नाम वेदनादयोऽरूपिणः स्कन्धाः रूपं रूपस्कन्धः । उपलम्भविकल्पार्थमाह । तैरसंविद्यमानाः
६६