________________
अभिसमयालधारालोकः ।
वितो रत्नमेघे पद्यत इति निर्वेधभागीयानामेवमालम्बनाकारहेतुत्वविशेषानिर्दिश्य चतुर्विकल्पसंयोगार्थ सर्ववस्त्वधिष्ठानं प्रथमं ग्राह्यविकल्पमाह। एवं शिक्षमाण इत्यादिना (p. 14, 15)। किमिति भावः । उद्भावनासंस्त्या शिक्षत इत्यभिप्रायेणाह। एवं शिक्षमाण इत्यादि। अविदितभगवदभिप्रायः शारिपुत्रः पृच्छति। तत्त्वेन कतमस्मिन् धर्मे शिक्षत इति । तत्र वस्तुमात्राधिष्ठानविकल्पेन विपर्यासानुषङ्गात्परमार्थतो न क्वचिदित्याह भगवान्न कस्मिंश्चिद्धर्मे शिक्षत इति । शिक्षमाणोऽपि कथं न शिक्षत इति । तत्कस्य हेतोरित्याशयाह। न होत्यादि (p. 15, 1) सांतशिकधर्मयोगाद्दालाः, वैयवदानिकधर्मविरहात्पृथग्जनाः। त एव चैवंविधधर्माधिमुक्तिबाहुश्रुत्यविगमादश्रुतवन्तः। एवं मन्यते। यथाऽविद्याविकल्पबलादिद्यमानत्वेनोपलम्भादभिनिविष्टास्तथा न संविद्यन्ते ऽतः संस्त्या शिक्षमाणास्तत्त्वतो न शिक्षन्त इति । यदि तथा न संविद्यन्ते, अर्थात्तन्यथा विद्यन्ते। तथा च भावग्रहाद्दोष इत्यभिप्रायेणाह। कथन्तीत्यादि। प्रवृत्तिविपर्यासनिराकरणद्यथाभिनिविष्टास्तथा न संविद्यन्त इति। यदि नामैवमुक्तं तथापि तत्त्वतो न सन्तोत्याह। यथेत्यादि। यथा न्यायतो न संविद्यन्ते तथाऽविचारैकरम्यत्वेन संवृत्त्या विद्यन्तेऽविद्यमानव विद्यमानतेति यावत् । एवमित्याधुपसंहारः। एवमविद्यमाना यतस्तेन कारणेन नैरुक्तविधानात् संरत्या विपरीतज्ञानमज्ञानमविद्येत्युच्यत इत्यनेनाविद्याविकल्पोऽभिहितः। रूपादि