________________
प्रथमपरिवर्तः ।
उपदिशसि परेषां तदालम्बनकथनात् । एवञ्चाचेत्याद्युपसंहारः । चशब्दोऽवधारणे । एवमेवात्र निर्वेधभागीय इत्यर्थः । कथं पुनरनेन क्रमेण शिक्षितव्यमिति । तत्कस्य हेतोरित्याशङ्क्याह । एवं हौत्यादि । प्रज्ञापारमितायां निर्वेधभागौयस्वभावायाम् । इत्यालम्बनाकारवलौकिकसर्वधर्माग्रत्वादग्रधर्माख्यं त्रिविधम् । तथाचोक्तम् ।
समाधिस्तस्य कारिचं व्याकृतिर्मननाक्षयः ॥ ३३ ॥ मिस्त्रिस्य स्वाभाव्यं समाधेर विकल्पना । इति निर्वेधभागौयं मृदुमध्याधिमाचतः ॥ ३४ ॥ इति एतदुक्तम् । एवं कृतधर्मप्रविचयः समाहितचित्तश्च सर्वधर्मनैरात्म्यं भावयन् क्रमेण यदा पृथग्भूतार्थाभिनिवेशाभावादौषत्स्पष्टज्ञानालेोकेन मनोमात्रमेव पश्यति तदाऽस्योष्मगतावस्था । स एवात्रालोकलब्धो नाम समाधिरुच्यते महायाने । यदा तस्यैव धर्मालाकस्य वृद्ध्यर्थं नैरात्म्यभावनायां वौर्यारम्भेण मध्यस्पष्टो ज्ञानालोको भवति, तदा मूर्धावस्था । स एव वृड्डालाको नाम समाधिः । यदा तु चित्तमात्रावस्थानेन स्पष्टतरो बाह्यार्थाभिनिवेशाभावो ज्ञानालोको जायते । तदा क्षान्त्यवस्था । ग्राह्याकाराभावानुप्रवेशात्तत्त्वार्थैकदेशप्रविष्टो नाम समाधिः । यदा पुनरर्थग्राहकविक्षेपानाभासो ज्ञानालोको निष्पद्यते, तदा लौकिकाग्रधर्मावस्था । स एवानन्तर्यो नाम समाधिः । सर्वाश्चैता अवस्था दृढाधिमुक्तितोऽधिमुक्तिचर्याभूमिरुच्यते । अस्याञ्च भूमौ वर्तमानो बोधिसत्त्वः पृथग्जनोऽपि सर्वबालविपत्तिसमतिक्रान्तोऽसंख्येयसमाधिधारणौविमोक्षाभिज्ञादिगुणा