________________
अभिसमयालशारालोकः।
विदितसमाधिस्वरूपस्य बोधिसत्त्वस्याऽहं समाहित इत्यादिज्ञानानुत्पत्त्या धर्मतामुखेनाकारेणाभ्यसनान्न सम्भवति । अधिमावस्यालम्बनार्थमाह। येनायुष्मन् सुभूते समाधिनेत्यादि। अधिमात्राग्रधर्मगतेन। शक्यः स समाधिदर्शयितुमिति। किं बोधिसत्त्वादीनां विवेकरूपेणेति भावः । क्वचिकतमेनेति पाठः। तत्र शक्यः स समाधिदर्शयितुमिति तस्यैव प्रश्नयितुर्वचनमसङ्गतमिति चिन्त्यम् । नो हौद. मि(p. 14, 3)त्याद्युत्तरम् । धर्मतया समाधिबोधिसत्त्वप्रज्ञापारमितार्थत्रयस्य परस्परमेकं रूपमित्यशक्यपृथगुपदर्शनविशिष्टरूपाद्यालम्बनानैवेत्यर्थः । कथं पुनर्भाव्यमानोऽपि दर्शयितुमशक्य इति । तत्कस्य हेतोरित्याशङ्याकारप्रतिपादनेनोत्तरमाह। तमपौत्यादिना। सर्वधर्माविद्यमानत्वेन समाधेरविकल्पनं परमोपाय इति धर्मतामुखेनाकारेणालम्बनात्तं समाधिं न जानाति निराकारेण चेतसा प्रत्यासत्तिनिबन्धनाभावात् । न सञ्जानौते साकारेण वस्तुभावमन्तरेण स्वप्नादौ भावात् । न केवलमाकारमित्यपिशब्दः । इदन्तया दर्शनस्य विकल्याधीनत्वादितिभावः । सर्वानुपलम्भे भाव्यभावकभावनाऽनुपपत्तिरित्यभिप्रायेण शारिपुचो न जानातीत्याद्याह। संवृत्या न दोष इति मत्वा सुभूतिराह। न जानातीत्यादि। तमेवाभिप्रायम्। तत्कस्य हेतोरित्याशङ्कयाह। अविद्यमानत्वेनेति (p. 14, 8)। तत्त्वत इति शेषः। प्रयोगादयस्तु मायापुरुषस्येव पूर्वावेधवशादित्याद्याकूतम्। धर्मताऽविरुद्धकथनात्साधुकारार्थमाह । साध्वित्यादि। प्रतिभाति ते तव तन्निर्भासिज्ञानोदयेन ।