________________
प्रथमपरिवतेः।
नाम समाधिस्तत्त्वतः समाधिस्वरूपं रूपाद्यालम्बनमयमिति सम्बन्धः। केनाकारेणालम्बनौयमित्याह। अनेनैवेत्यादि (p. 13, 10) । स्वप्रणिधिपुण्यज्ञानधर्मधातुबलेनानाभोगात्सर्वलोकधातुषु यथाभव्यतया समाधेापारः प्रवर्तत इति कार्यमुखेनाकारणालम्बनात् क्षिप्रमनुत्तरां सम्यसम्बोधिमभिसम्बुध्यते। मध्यस्यालम्बनार्थमाह। बुड्वानुभावेनेत्यादि। बुड्वानुभावप्रक्रमेऽपि पुनस्तद्दचनं प्रतिभानविशेषाभिद्योतनार्थमथवा विनेयानां तत्स्मरणदृढौभावार्थम् । व्याकृतोऽयमिति (p. 13, 12)। धर्मतैषा सम्यक्प्रतिपन्नसमाधेर्योगिनो बुबैर्व्याकरणं क्रियत इति व्याकरणहेतुत्वविशिष्टरूपाद्यालम्बनात्। तथागतैरित्यादि। सर्वाकाराविपरीतधर्मदैशिकत्वेन परार्थसम्पदा तथागताः । सवासनक्लेशज्ञेयावरणप्रहाणयोगात् स्वार्थसम्पदाऽर्हन्तः । सम्यक्सम्पद्दयावाहकमार्गाधिगमात्सम्बद्धाः। अनेनेति मध्याग्रधर्मगतेन। केनाकारणालम्बनौयमित्याह। स तमपीत्यादि। न समनुपश्यति निर्विकल्पेन चेतसा। न च तेन मन्यते सविकल्पेन तत्त्वतोऽसत्त्वात्। अहं समाहित इति लब्धसमाधिकः समापत्स्य इत्यादयः प्रयोगमौलपृष्ठभाविनो विकल्याः कालवयभाविनो वा। सर्वेणेत्यादि (p. 13, 16) " हे ह्यमू सर्वते वस्तुसर्वताऽकारसर्वते"ति वचनात् । सर्वेणातीतादिवस्तुभेदेन सर्व स्कन्धादिविषयं विकल्पजातं वस्तु । सर्वथा मृदुमृदुनापि प्रकारेण । सर्व सवासनसर्वप्रकारम् । न संविद्यते सर्वविकल्यानुपपत्त्या