________________
अभिसमयालदारालोकः ।
पारमितायामधिमात्रक्षान्तिस्वभावायाम्। केनाकारेणालम्बनौयमित्याह । स हि चरन्नित्यादि (p. 13, 3) ।
विधानं प्रतिषेधञ्च तावेव सहितौ पुनः ।
प्रतिषेधं तयोरेव सर्वथा नावगच्छति ॥ इति भावः। कथं पुनरनवगमे भावनेति। तत्कस्य हेतोरितीत्याशयाह। सर्वधर्मा होत्यादि (p. 13, 8) । यस्मात् प्रकृत्यैव रूपादिनिमित्तानामाश्रयरहितत्वेनाधिमोक्षमनस्कारानधिमोक्षतत्त्वमनस्कारापरिज्ञानमिति धर्मतामुखेनाकारणालम्बनादधिमोक्षणास्वीकृतत्वादनुपगतास्तत्त्वमनस्कारेण चारहीतत्वादनुपात्ताः। इत्यालम्बनाकारवदपायाभावेनाधिमात्रधर्मक्षमणात् शान्तिगतं त्रिविधम् । तथाचोक्तम् ।
रूपादेरस्वभावत्वं तदभावस्वभावता। तदजातिरनिर्याणं शुद्धिस्तदनिमित्तता ॥ ३२॥ तनिमित्तानधिष्ठानाऽनधिमुक्तिरसंज्ञता। इति । अतएव "क्षान्तिलाभ्यनपायग” इति वचनादोधिसत्त्वाः क्षान्तिं नोत्पादयन्तीति यदक्तमाचार्यपादैस्तच्चिन्त्यम् । बोधिसत्त्वानां क्षान्त्यधिगमवचनात्, कर्मायत्ततयेत्यभिप्रायात् शान्तिलाभी नापायं गच्छतौत्यपि सूत्रं न विरुध्यते। अवश्यञ्चैतविज्ञेयम् । तथाहि भगवदादेशेन शारिपुत्रादयोऽपि सुन्दरनन्दं गृहीत्वा नरकचारिकां गता इति प्रदेशान्तरे पद्यते। क्षान्त्यनन्तरमिदानों मृदनोऽग्रधर्मगतकुशलस्यालम्बनार्थमाह। अयमित्यादि। सर्वधर्मा नोपादीयन्ते येन समाधिना सर्वधर्मानुपादानो