________________
प्रथमपरिवर्तः ।
यावत्। केनाकारेणालम्बनौयमित्याह। एवञ्चरत इत्यादि। एवमनन्तरोक्तन न्यायेन चरतो भावयतः सर्वगत्यर्थावबोधार्था इति कृत्वा । आसन्नीभवतीति शीघ्राधिगमप्राप्तेर्निकटवर्तिनौ स्यात्। सत्त्वपरिपाचनायेति कुशलधर्मनियोजनात् सत्त्वपरिपाकायेत्यादि। सर्वधर्मस्वरूपावबोधेन कायादीनां सर्वाकारविशुद्धिरिति विशुद्धिहेतुत्वाविशुद्ध्याकारेण हेतुमुखेनाभ्यसनात्कायपरिशुद्धिर्भवति परिशुद्धं त्रिविधं कायकर्म। चित्तपरिशुद्धिः परिशुद्धं त्रिविधं मनस्कर्म । स्थानस्थोत्तप्तपूर्णत्वेन निष्यत्तेात्रिंशमहापुरुषलक्षणपरिशुद्धिः। सत्त्वभाजनयोः परिशुद्धता बुद्धक्षेत्रपरिशुद्धिः ।
निर्वेधभागीयावस्थायां सर्वथाऽसम्भवात् कियन्मात्रेणेति भावः। एवमित्याधुपसंहारः। अधिमावस्यालम्बनार्थमाह। सचेद्रप इत्यादिना। एवं मन्यते । यावदभिनिवेशयोगेन निमित्तग्रहाच्चरति तावन्निमित्तक्लेशा बोधिसत्त्वा इति वचनादपलम्भमूले संसारक्लेशे पततीति । तत्र रूपं कार्यभूतम् । रूपनिमित्तं सहकारिकारणम् । रूपं निमित्तमुपादानकारणम्। उत्पादो जन्म । निरोधः क्षणिकानित्यतया। विनाशः प्रबन्धानित्यतया। शून्यमुभयोरभावः। अनुपायकुशला (p. 12, 10) विपर्यासप्रवृत्तत्वादेदितव्यः। व्यतिरेकमुखेन निर्दिश्यान्वयमुखेनाह। कथमित्याह। एवञ्चरन्नित्याद्युपसंहारः। स्वसामान्यलक्षणानुपपत्त्या सर्वधर्माणामनिमित्तत्वविशिष्टं रूपाद्यालम्बनमिति । एवं चरन् बोधिसत्त्वश्चरति प्रज्ञा