________________
व्यभिसमयालङ्कारालोकः ।
स्वभावविरहितत्वं प्रतिपादितमिति । तदर्थमाह । प्रज्ञापारमितालक्षणेन सामान्यरूपेण विरहिता प्रज्ञापारमिता विशेषरूपेणापि लक्षणेनेत्यपिशब्दः विपर्यासविनिवृत्तिफलत्वाद्देशनायाः लक्ष्यलक्षणं तर्ह्यस्तीत्याह ।
लक्षण
स्वभावेनेत्याह (p. 10, 20 ) । लक्षणं सामान्यं लक्ष्यो विशेषः । तयोस्तर्हि स्वभावोऽस्तीत्याह । स्वभावलक्षणेनेति । लक्ष्यलक्षणनिर्मुक्तं वागुदाहारवर्जितम् ।
तत्त्वं प्राज्ञप्तिको युक्ता लक्ष्यलक्षण संस्थितिः ॥ इति भावः । एतदुक्तम् । “शून्यतया तल्लक्ष्यलक्षणयोरेकत्वेनास्वभावत्वविशिष्टं रूपाद्यालम्बनमिति । केनाकारेणालम्बनौयमिति प्रश्नपूर्वकमाकारार्थमाह । किं पुनरित्यादि (p. 11, 1) | अचास्मिन्नालम्बने संवृत्या यः शिक्षिष्यते स किन्निर्यास्यति सर्वज्ञतायां तन्निमित्तमृदुक्षान्तिगतकुशललाभेनेति भावः । धर्मताऽविरुद्ध एवोक्त इत्यभ्युपगमार्थमाह । एवमेतदित्यादि । निर्यास्यतौति रूपादीनामभाव एव स्वभावता संहतिपरमार्थमुखेनाकारस्तस्य भावनयेति यावत् । कथं पुनर्मृदुक्षान्तिगतकुशले शिक्षमाणः सर्वाकारज्ञतायां गमिष्यतौति । तत्कस्य हेतोरित्याशङ्क्य (p. 11, 5) मध्यस्यालम्बनार्थमाह । जाता हौत्यादि । उत्तरोत्तरालम्बनविशेषादिभिरधिगमविशेषे नियमेन यास्यतौति भावः । आद्य हिशब्दो ऽवधारणे । अजाता एवेत्यर्थः । कुतो, यस्मात् क्षणिकानित्यतया जातिधर्मनिरोधेनानिर्याता न निर्वाणं गताः सर्वधर्मा इति प्रकृत्य - स्वभावत्वेनानुत्पादानिरोधविशिष्टं रूपाद्यालम्बनमिति
पूह