________________
प्रथम परिवर्तः ।
प्रज्ञापारमिता
यद्येवमभावस्तद्दत्याह । किं यो धर्म इत्यादि (p. 10, 4) | निर्विषयस्य नञोऽप्रयोगादभावस्तत्त्वतः न भवतीति भावः । स चेदित्याद्युपसंहारः । प्रज्ञापारमितयाऽधिमात्रमूर्धस्वभावयाऽधिगमादविरहितो वेदितव्यः । “ सम्यग्धर्मप्रविचयत्वेन प्रज्ञया सर्ववस्तुनोऽनुपलम्भतया निरूपणादविद्यमानप्रज्ञापारमितास्वभावत्वं धर्मतामुखेनाकार” इत्यालम्बनाकारवञ्चलकुशलमूलमूर्धत्वान्मूर्धगतं त्रिविधम् । तथाचोक्तम् ।
66
एतदुक्तं
रूपादावस्थितिस्तेषां तद्भावेनास्वभावता ॥ २८ ॥ तयोर्मिथः स्वभावत्वं तदनित्याद्यसंस्थितिः । तासां तद्भावशून्यत्वं मिथः स्वाभाव्यमेतयोः ॥ ३० ॥ अनुग्रहो यो धर्माणां तन्निमित्तासमीक्षणम् । परौक्षणश्च प्रज्ञायाः सर्वस्यानुपलम्भतः ॥ ३१ ॥ इति मूर्धानन्तरमिदानीं मृदुनः क्षान्तिगतकुशलस्यालम्बनार्थं प्रश्नपूर्वकमाह । किं कारणमित्यादि (p. 10, 10) । रूपस्वभावेनेत्यालम्ब्यत इति शेषः । एतदुक्तम्। यदा रूपादिकं विरहितं रूपादिस्वभावेनालम्ब्यते तदा किं कारणं प्रज्ञापारमितया मुख्यतो मृदुशान्तिस्वभावयाऽविरहितो वेदितव्य इति । प्रतीत्यसमुत्पादधर्मतेयं यदुतास्मिन् सतौदं भवतौत्यभिप्रायेण रूपमेवेत्युत्तरमावेदयन्नाह । अन्यथा यदा रूपमेव विरहितं रूपस्वभावेनेति प्रश्न रूपमेव विरहितं रूपस्वभावेनेत्युत्तरं न युक्तं स्यात् । कथं पुनः स्वभावेन विरहितं रूपादौत्याशङ्क्य प्रज्ञापारमितायाः स्वभावविरहितत्वप्रतिपादनेनैवान्येषां
પૂર