________________
अभिसमयालशारालोकः ।
पूर्वोक्तत्यपिशब्दः। तदेव दर्शयन्नाह । यद्र्पमित्यादि। यदिति यस्मादर्थे निपातः । रूपादीनां निमित्तासमीक्षणादिति भावः। श्रावकवत्त_नुपलम्भेन सर्वनिरोधे बोधिसत्त्वो निर्वायादित्याह। न चेत्यादि। चशब्दोऽवधारणे।
असंलौनेन कायेन वेदनामधिवासयन् ।
प्रद्योतस्येव निर्वाणं विमोक्षस्तस्य चेतसः ॥ इति । निर्वाणस्य महायाने प्रतिषिद्धत्वात्। सद्धर्मपुण्डरीकसूत्रप्रामाण्येन तावत्कालं सत्त्वार्थ प्रति प्रसब्धिमुपादाय नैवान्तरा मध्ये श्रावकवदनिमित्तत्वसाक्षात्करणेन महोपायकौशल्यबलात् परिनिर्वाति । निर्वेधभागीयावस्थायां श्रावकपरिनिर्वाणस्यासद्भावात् क्रमेणेति शेषः । अपरिपूर्णैरिति कियन्मात्रेणाप्यन्येषां भावात् सर्वाकारानिष्यन्नैर्यावदुइधर्मैरिति योज्यम्। तथागतबलादयो वक्ष्यन्ते । तस्मादित्याद्युपसंहारः। एतदक्तं स्वभावाभावतयैव नीलादिनिमित्तादर्शनविशिष्टं तत्त्वतो रूपाद्यालम्बनमिति। केनाकारेणालम्बनौयमित्याह। पुनरपरमित्यादि (p. 10, 1) एवमिति। वक्ष्यमाणक्रमेण । उपपरीक्षितव्यं भावनाकाले यथावतार्थप्रत्यवेक्षणात् । उपनिध्यातव्यं श्रुतचिन्ताकाले युक्त्यागमाभ्यान्निरूपणात्। कतमैषेति रूपादिस्कन्धानां मध्ये कतमा। अथवा किं द्रव्यं गुणः कर्म सामान्यं समवायो विशेषो वेत्यर्थः । कस्य चैषेति किमात्मनो धर्मस्य वा सम्बन्धिनी। अपि तु रूपादौनामनुत्पन्नत्वान्न काचिन्नापि कस्यचिदित्यर्थः ।