________________
प्रथमपरिवर्तः ।
वतीर्ण" इति भदन्त विमुक्तिसेनः। केनाकारेणालम्बनौयमित्याह। नाध्यात्ममित्यादि (p. 9, 3)। अध्यात्मरूपस्योपात्तभूतभौतिकस्याध्यात्मिकायतनस्य तद्भावकं ज्ञानमध्यात्मशून्यतया न समनुपश्यति निमित्तत इति शेषः । बहिर्धा रूपस्यानुपात्तभूतभौतिकस्य बाह्यायतनस्य बहिर्धाशून्यतया। अध्यात्मबहिर्धारूपस्य तद्भयस्य शरीरस्योभयशून्यतया। रूपादन्यत्र तर्हि पश्यतीत्याह। नाप्यन्यवेत्यादि। एवं धर्मभावनाभिनिविष्टः कथमसौ वक्तव्य इत्याह। अत्रेत्यादि (p. 9, 9)। अत्रास्मिन् पदपर्याये योगस्थानविशेषेऽधिमुक्तिचर्याभूमौ स्थितः श्रेणिकोऽधिमुक्त इति वक्तव्यो नाधिगत इति । यतः श्रेणिकोऽत्र सर्वत्रानिमित्ते सर्वज्ञज्ञाने तत्त्वानधिगमेन श्रद्धानुसारौत्युच्यते। तीक्ष्णोन्द्रियत्वेन तत्त्वाधिगमे तु धर्मानुसारौ भवतीत्यभिप्रायः। कथं पुनर्मुद्विन्द्रियोऽप्येवमधिमुक्त इत्याह। धर्मतामित्यादि। पूर्वावेधबलात् प्रज्ञापारमिताधर्मतामविसंवादेन प्रमाणीकृत्यैवमनिमित्तत्वेनाधिमुक्त इति। तस्मात्तेन न कश्चिद्धर्मोऽध्यारोपतः परिगृहीतो नापि विद्यमानत्वेनोपलब्धो यं धर्ममुपादेयत्वेन गृह्णीयात्, स्वीकुर्यात्। मुञ्चेदा हेयत्वेन।
आस्तां तावदन्यं निर्वाणमपि न स मन्यते । तत्त्वतो न बुध्यते । एतदुक्तं स्वभावप्रतिषेधेनास्वीकारो रूपादौनां धर्मतामुखेनाकार इति । तत्र श्रेणिकोदाहरणम् । तस्य तौर्थिकसम्बन्धेन समाधिव्यत्थितस्याधिमोक्षबलेनैव तदर्थप्रत्यक्षसाक्षित्वज्ञापनार्थम्। अधिमावस्यालम्बनार्थमाह । इयमपौत्यादि, (p. 9, 13)। इयमिति। वक्ष्यमाणा न केवलं