________________
अभिसमयालबारालोकः।
५५
पाठो न ग्राह्यः। अप्रमाणनियतः सर्वाकारज्ञताप्रतिनियमात्। उरुकरुणाप्रज्ञायोगेन वाऽप्रमाणसत्त्वार्थकरणे नियतत्वादप्रमाणनियतः। असाधारणोऽगम्योऽन्येषां यथोक्तालम्बनादिपञ्चविधवैशिष्ट्यात्। मध्यस्यालम्बनार्थमाह। सापि सर्वज्ञतेति। अपिशब्दादनित्यतादिशून्यतानां परिग्रहः । अपरिगृहीता कुत इत्यादि। न होत्यादि। निमित्तमसाधारणं रूपं तत्त्वेनान्योन्यमेकरूपत्वान्नास्यतोऽग्रहणमिति यावत् । एतदुक्तं धर्मधातुरूपतयाऽनित्यतादिसर्वाकारज्ञताशून्यतानां स्वस्वभावेन निःस्वभावत्वात् परस्परमेषामेकात्म्येनानिमित्तत्वविशिष्टं रूपाद्यालम्बनमिति । निमित्तग्रहे को दोष इत्याह। स चेदित्यादि। यदि निमित्ततो ग्रहौतव्या भवेत्तदा स्वशासने निमित्तग्रहेण दीर्घकालं मुक्तिमपश्यनिर्विमः सन्नैवेह शासने श्रेणिकसंज्ञकः परिव्राजकस्तपस्वी श्रद्धामनिमित्तयोगेनाभिसंप्रत्ययं प्रतिलभेत। निमित्तग्रहस्य तुल्यत्वादिति भावः। तदेव कथयन्नाह । अत्र होत्यादि। अवानिमित्ते तथागतत्वावाहकत्वेन सर्वज्ञज्ञाने तन्निमित्तमधिमुच्याधिमोक्षमनस्कारं कृत्वा मृहिन्द्रियत्वेन श्रद्धया मार्गानुसरणाच्छानुसारी प्रादेशिकेन पुनलनैरान्यज्ञानेनावतीर्णः सोऽवतीर्योत्तरकालं न रूपादि निमित्ततो मनसिकरोति। "नापि तवानिमित्तभावनायामुत्पन्नेन प्रौतिसुखेन तद्भावकं ज्ञानं निमित्ततः समनुपश्यति। तत्र प्रौतिः सौमनस्यं चैतसिकं, सुखं प्रसब्धिः कायिकी। स हि लौकिकवीतरागः प्रथमद्वितीयध्यानान्यतरसन्निश्रयेणा