________________
५४
प्रथमपरिवर्तः ।
तत्कस्य हेतोरित्याशङ्याह। न होत्यादि (p. 8, 9) । एवं मन्यते विकल्पोऽभिसंस्कारः प्रज्ञापारमिता च निर्विकल्या। तत्कथं विकल्ये तत्वाभिनिवेशेन चरन् प्रज्ञापारमितायां चरति । केवलं मायापुरुषेणेव चरितव्यमिति । न परिरह्नाति नापि योगमापद्यते नापि परिपूरयत इति पदवयं यथासयं प्रयोगमौलपृष्ठावस्थासु द्रष्टव्यम् । प्रज्ञापारमितामिति मुख्यतो मृदुमूर्धस्वभावां, न निर्यास्यतीत्यादि। अपरिगृहौतमग्रहणाहमभिसंस्कारं परिगृह्णन् स्वीकुर्वाणो न निर्यास्यति सर्वाकारज्ञतायामिति योज्यम् । सर्वाकारज्ञता चात्र विसर्वज्ञतासामान्यात् सर्वज्ञताशब्देनोक्ता यथासम्भवमेवमन्यत्रापि। कथमग्रहणा) ऽभिसंस्कार इति चेत् । तत्कस्य हेतोरित्याशङ्याह । रूपं होत्यादि। एवं मन्यते । अभिसंस्कारविषयस्वभावा रूपादयो न्यायतो ऽसत्त्वेनापरिगृहीताः प्रज्ञापारमितायामतस्तद्विषयोऽभिमंस्कारो वितथप्रतिभासित्वान्न ग्राह्य इति। तदेव दर्शयन्नाह। यश्च रूपस्यापरिग्रहो न तद्रपमित्यादि (p. 8, 14)। विधिप्रतिषेधयोभिन्नविषयत्वादितिभावः। प्रज्ञापारमितायामपि तत्त्वाभिनिवेशो न कार्यों विपर्यासप्रसङ्गादित्याह । सापौत्यादि उपसंहरनाह। एवं होत्यादि। हिशब्दोऽवधारणे। एवमेवेत्यर्थः । एवमालम्बनाकारनिर्यातं मृदुमूर्धगतं समाधिमाह । अयमित्यादिना। “सर्वधमरूपादिभिरपरिगृहीतो यः समाधिरन्वर्थसंज्ञकः स तथोक्तः। विपुला धर्मधातुवैपुल्येन, पुरस्कृतो यथोक्तालम्बनाकारविशेषाभ्यां चेतसः पुरतो वर्तना"दित्यार्यविमुक्तिसेनः। अतएव क्वचिदपुरस्कृत इति