________________
अभिसमयालझारालोकः ।
विज्ञानम् । तत् पुनस्त्रिविधं रूपम् । कल्पितं रूपं ग्राह्यग्राहकरूपेण कल्पितत्वात्। विकल्पितं रूपमसद्भूतपरिकल्पेन ज्ञानमेव तथा प्रतिभासत इति विकल्पितत्वात् । धर्मतारूपं तत्त्वतोऽरूपमेव शून्यतारूपेण परिनिष्यन्नत्वात्। एवं वेदनादयोऽपि वाच्याः। यथौदारिकसंक्लेशभाजनाद्यर्थधातुतो रूपादौनामियानेवमनुक्रमः। तत्र रूपादौ तत्त्वतोऽसत्त्वेन वस्तूपलम्भयोगान्न स्थातव्यं चेतसः प्रतिष्ठानं न कार्यमिति यावत् । एतदक्तं यस्मात् स्वभावशून्यतया रूपादौनां रूपादिस्वभावेनापगतस्वभावता। तस्मादस्थानान्त्वविशिष्टं रूपाद्यालम्बनमिति । कस्मादेवमालम्बनमिति तत्कस्य हेतोरित्याशङ्ख्याकारं व्यतिरेकमुखेनाह। सचेद्रपे इत्यादिना । एवं मन्यते । आलम्बनग्रहणप्रकार एवाकारः संविनिष्ठा च विषयस्थितिरित्याकारानुरूपमेवालम्बनं ग्राह्यम् । अतो यदि रूपेऽनित्यादिभिराकारैस्तिष्ठति तदा रूपाभिसंस्कारे रूपाभोगविकल्पे चरति । एवञ्च न चरति प्रज्ञापारमितायां मुख्यतो मृदुमूर्धस्वभावायामेवं वेदनादिष्वपि योज्यम् । एतदुक्तं धर्मतामुखेनाकारश्चैवं विधो ग्राह्यो यदुत परमार्थेन रूपादिसर्घधर्मशून्यतयोः परस्परमेकं रूपमिति। तत्र शून्यतायामनित्यत्वादौनामभावेन रूपादौ न नित्यानित्यादिभिराकारैः स्थानं विधेयमिति। तथा हि मृदमूर्धाकारमधिकृत्य पञ्चविंशतिसाहसिकायां व्याख्यातम् । "रूपमेव शून्यता शून्यतैव रूपमेवं यावद्या च भगवन्ननित्यतायाः शून्यता न सा नित्यते" त्यादि। अभिसंस्कारमन्तरेण भावनानुत्पत्तेः कथं पुनरभिसंस्कारे चरन्न चरतीति ।