________________
५२
प्रथमपरिवर्तः।
प्राप्तापरिहाण्याऽविनिवर्तनौयायामष्टम्यां बोधिसत्त्वभूमौ तत्कार्यावैवर्तिकत्वलाभात्। सुस्थितस्तदपादानयोग्यत्वेनोत्तरोत्तरविशेषाधिगमलाभादप्राप्तापरिहाण्या। एतच्च दयमनभिनिवेशयोगेनेत्याह । अस्थानयोगेनेति (p. 8, 3)। एतदक्तं धर्मतामुखेनाकारोऽवाच्यतेति। पञ्चविंशतिसाहसिकायाञ्चाधिमात्रोष्मालम्बनाकारमधिकृत्योक्तम् । “यापौयं भगवन् धर्मसाङ्केतिकौ प्रज्ञप्तिर्यदुत बोधिसत्त्व" इति विस्तरेण यावबुद्ध इति । “सापि न केनचिद्धर्मेण वचनीया कुशलेन वा ऽकुशलेन वा" यावद्भावेन वाऽभावेन वा। तद्यथापि नाम स्वप्न इत्यादि। तस्मान्न सन्देहः कार्य इत्यालम्बनाकारवनिर्विकल्पकज्ञानाग्नेः पूर्वरूपत्वादमगतमिवोष्मागतं त्रिविधम् । दर्शनमार्गासन्नतरत्वमसत्यन्तराये भवतीति। मोक्षभागीयादस्य विशेषो वेदितव्यः । तथाचोक्तम् ।।
आलम्बनमनित्यादि सत्याधारं तदाकृतिः। निषेधोऽभिनिवेशादेहेतुर्यानत्रयाप्तये ॥ २८॥ रूपाद्यायव्ययौ विष्ठास्थितौ प्रज्ञत्यवाच्यते ॥ इति उष्मानन्तरमिदानों मृदुनो मूर्धगतकुशस्लस्यालम्बनार्थमाह। पुनरपरमित्यादि (p. 8, 3)। प्रज्ञापारमितायां मुख्यतो मूर्धस्वभावायाञ्चरता भावयतेति व्याख्यातमथवा प्रयोगपृष्ठचित्तेन चरता मौलचित्तेन भावयतेति योज्यम्।
न रूपे स्थातव्यमित्यादि। तत्र रूपेणालक्षणं रूपम् । अनुभवलक्षणा वेदना। निमित्तोड्रहणात्मिका संज्ञा । चित्ताभिसंस्कारलक्षणाः संस्काराः। अवबोधनलक्षणं