________________
अभिसमयालङ्कारालोकः।
विशिष्टं रूपाद्यालम्बनमिति । तत्केनाकारेणालम्बनौयमित्याह। अपि त्वित्यादि। तदपि नामधेयमालम्बनं न स्थितं प्रबन्धरूपेण ।
निषेध्याभावतः स्पष्टं न निषेधोऽस्ति तत्त्वतः । न च निर्विषयः साधुप्रयोगो विद्यते नमः ॥ विकल्पापाश्रयत्वे वा सांतः स्यान्न तात्त्विकः। इति न्यायान्नास्थितं न विष्ठितं प्रबन्धविसदृशत्वेन तथैव नाविष्ठितम्। संस्त्या प्रतिभासमाननामधेयस्य कथं प्रबन्धतद्वसदृश्यानुपपत्तिरिति। तत्कस्य हेतोरित्याशङ्याह। अविद्यमानत्वेनेत्यादि। तत्त्वत इति शेषः। संवृत्या न दोष इत्यभिप्रायः। उपसहरनाह। एवं तदित्यादि। एतदक्तं धर्मतामुखेन प्रबन्धतईसदृश्यापगततत्त्वमाकार इति। अधिमात्रस्यालम्बनार्थमाह। स चेदित्यादि। एवं गम्भौरायामिति नाममात्रत्वेन प्रज्ञप्तिमात्रस्वभावायामन्यतौबँः स्वैश्चानिश्रयभौरुभिरलब्धगाधायाम् । एतदुक्तं प्रज्ञप्तिमात्रत्वविशिष्टं दःखादिसत्यमालम्बनमिति। तत्केनाकारणालम्बनौयमित्याह। अधिमुच्यत इत्यादि (p. 8, 1)। सा प्रज्ञप्तिन केनचिद्धर्मेण कुशलादिना वाच्येत्यधिमुच्यते, अध्यालम्बते।
आयतो विपुला हृष्ट उपकारपरो महान् । कल्याणश्चैवमाधिक्यादाशयो ऽध्याशयः सताम् ॥ इत्यध्याशयेनाविरहितो युक्तः स बोधिसत्त्वः प्रज्ञापारमितयाऽधिमाचोमस्वभावया मुख्यतः। अन्यत्राप्येवंप्रकरणबलात् प्रज्ञापारमितार्थो वेदितव्यः। स्थितः