________________
प्रथमपरिवतः
मधिगमाय। श्रावकयानेऽपि बुड्वधर्मा निर्दिष्टा इत्याशङ्ख्याह। तत्कस्य हेतोरिति । तथैवोत्तरार्थमाह। इहैव होत्यादि (p. 7, 7) श्रावकभूमावपौत्यारभ्य यावदन्तेन योगमापत्तव्यमित्यनेनैतदक्तम्। यानत्रयाधिगमप्राप्तये मृदूष्मगतं कुशलं हेतुरिति । अयं च हेतुभावः सर्वेषामेवोष्मादीनां वेदितव्यः । मध्यस्यालम्बनार्थमाह । योऽहं भगवन्नित्यादि। बोधिसत्त्वनामधेयमिति (p. 7, 9)। पूर्व यस्यार्थस्य बोधिसत्त्व इति नाम तस्यानुपलम्भो नाहं भगवंस्तं धर्म समनुपश्यामी(p. 4, 20)त्यादिनोक्तः। साम्प्रतम् ।
नाममावमिदं सर्व संज्ञामात्र प्रतिष्ठितम् ।
नाभिधानात् पृथग् भूतमभिधेयं प्रकल्प्यते॥ इति कृत्वा यदेतदोधिसत्त्व इति नामस्वरूपमववदनौयं तस्यानुपलम्भो देशित इति शेषः। न वेद्मोत्यादि व्याख्यातम् । अथवाऽतीतं न वेद्मि वर्तमानं नोपलभेऽनागतं न समनुपश्याम्यध्वशून्यत्वात् सर्वधर्माणामिति योज्यम्। अववादविषयं नाम तमुस्तौत्याह । प्रज्ञापारमितामपौति (p. 7, 12)। नाममाचामित्यभिप्रायः। बोधिसत्त्वमितिनामस्वरूपं । नामधेयस्य प्रकृतत्वात् । कौकृत्यमिति। संवेदननिष्ठत्वादिषयस्थितेरनुपस्लम्भादेतत्कौलत्यश्वेतसो विप्रतिसारिता। तदेवाह योऽहमित्यादिना। आयव्ययमिति । विधिरायो व्ययो निषेधः।।
विधानं प्रतिषेधं च मुत्ला शब्दो ऽस्ति नापरो। व्यवहार इति कृत्वा पदद्दयेनैव सर्वसङ्घहादेतावन्मात्रकमुक्तम् । एतदुक्तं तत्त्वेनायव्ययविनिर्मुक्तत्व